OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 27, 2023

 सुडानतः ३६७ भारतीयाः प्रत्यानीताः। 

नवदिल्ली> तीव्रेण आभ्यन्तरयुद्धेन कलुषितात् सुडानदेशात् ३६७ भारतीयाः केन्द्रसर्वकारेण दिल्लीं प्रत्यानीताः। सुडानतः भारतीयानपनेतुं भारतीयसर्वकारेण पर्यायोजितस्य 'ओपरेषन् कावेरी' नामकस्य अंशतया एव ह्यः रात्रौ सुडानतः जिद्दाद्वारा प्रथमसंघः दिल्लीं प्राप्तः। 

  नौसेनायाः 'ऐ एन् एस् सुमेधा' युद्धमहानौकां,  वायुसेनायाः द्वे 'सि १३०' विमाने च उपयुज्य अपनीतप्रवर्तनानि प्रचलन्ति।  जिद्दायां भारतस्य विदेशकार्यसहमन्त्री वि मुरलीधरः रक्षाप्रवर्तनानां नेतृत्वं वहति।