OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 25, 2023

 श्रीशङ्करस्मरणायां कालटिप्रदेशः। 


कालटी> भारतस्य दार्शनिकमण्डले अद्वितीयस्थानमलङ्कुर्वतः अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्वामिनः जयन्तिदिनं भवत्यद्य।    जन्मग्रामे कालट्यां बहुदिवसैः आयोजिताय जन्मदिनोत्सवाय अद्य परिसमाप्तिः। प्रदेशस्य विविधस्थानेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। 

 श्रृङ्गेरीजन्मभूमिमन्दिरे मन्दिरकार्यक्रमान् अतिरिच्य शास्त्रार्थविद्वत्सभा, शङ्करजयन्तिसम्मेलनं, रथोत्सवमित्यादिकं सम्पद्यते। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे कनकधारायज्ञस्य परिसमाप्तिः, मातृवन्दनं च भविष्यति। 

  आदिशङ्कर कीर्तिस्तम्भे ऋग्वेदसंहिताहोमः, जयन्तिसम्मेलनं, सन्यासिमहापरिक्रमः इत्यादिकम् आयोजितमस्ति।  महापरिक्रममेलने मैसुरु एडत्तोरास्थस्य योगानन्देश्वरमठस्य अधिपतिः शङ्करभारति स्वामिनः अनुग्रहभाषणं करिष्यन्ति।  उच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः पि एन् रवीन्द्रः अध्यक्षः भविष्यति।