OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 6, 2023

  स्निग्धसुवासकस्य उपयोगेन कान्सर्- रोगः।     ७२००० कोटिरूप्यकाणां क्षतिपूर्तिं दातुं सज्जः जोण्सन् आन्ट् जोण्सन् कम्पनी।

- रेवती 

  न्यूयोर्क्> जोण्सन् इत्यस्य  स्निग्धसुवासकस्य (baby talcum powder) उपयोगः कान्सर् रोगस्य कारणं भवतीति ज्ञात्वा कम्पनीजनाः प्रकरणस्य निराकरणाय ७२००० कोटिरूप्यकाणां क्षतिपूर्तिः प्रख्यापितवन्तः । जोण्सन् कम्पन्या निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति गवेषणफलं ज्ञात्वा कम्पनीजनाः स्निग्धसुवासकस्य उत्पादनं स्थगितवन्तः। यतः तस्मिन् स्निग्धसुवासके विद्यमानः एस्बेस्टोस् पदार्थः कान्सर् रोगस्य कारकः भवति । अनेन एस्बेस्टोस् पदार्थेन शिशुषु मेसोतेलियोमा इति रोगावस्थापि आगच्छति। 

    स्निग्धसुवासकस्य नाम श्रवणेन जोण्सन् आन्ट् जोण्सन् कम्पन्याः नाम एव प्रथमं सर्वेषां मनसि आगच्छति। किन्तु तेन निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति ज्ञात्वा प्रायः ३८००० जनाः कम्पनीविरुद्धानि आरोपणानि उन्नीय न्यायालयं गतवन्तः।