OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 13, 2023

 केशवमहीन्द्रः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा च 'महीन्द्र आन्ड् महीन्द्र' इति संस्थायाः भूतपूर्वाध्यक्षः केशवमहीन्द्रः दिवंगतः। बुधवासरे मुम्बय्यां स्वभवने आसीत् ९९ वयस्कस्य तस्य अन्त्यम्। 

  १९२३ तमे वर्षस्य ओक्टोबर् २९ तमे दिनाङ्के षिंलायां महीन्द्र इति संस्थायाः स्थापकस्य जगदीशचन्द्र महेन्द्रस्य पुत्रत्वेन केशवमहीन्दः जनिमलभत। अमेरिक्कातः बिरुदप्राप्त्यनन्तरं १९४७ तमे 'महीन्द्रयां' उद्योगस्थः अभवत्। १९६३ तमे वर्षे संस्थायाः अध्यक्षपदं प्राप्य ४८ संवत्सराणि यावत् तस्याः नायकस्थानमलंकृतवान् च। यानानाम् उत्पादकाः इतिस्थानमतिरिच्य ऐ टि, आर्थिकसेवा, विनोदसञ्चारः, 'रियल् एस्टेट्' इत्यादिषु विविधेषु मण्डलेषु स्वसंस्थां प्रतिष्ठातुं सः प्रयतितवान्।