OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 29, 2023

 केरलसंस्कृताध्यापक फेडरेषन् द्वारा नेतृत्वपरीशीलनशिबिरं समारब्धम्। 

उद्घाटनभाषणभाषणं करोति डो वि अच्युतन् कुट्टिवर्यः।

गुरुवायूर्> केरलसंस्कृताध्यापक फेडरेषन नाम संघटनस्य [के एस् टि एफ्] नेतृत्वे त्रिदिवसीयं राज्यस्तरीयं   नेतृत्वपरीशीलनशिबिरं समारब्धम्। गुरुवायूर् समीपस्थे शिक्षकसदने आयोज्यमानस्य शिबिरस्य उद्घाटनं गुरुवायूर् देवस्वसंस्थायाः कलानिलये संस्कृतविभागाध्यक्षः डो  वि अच्युतन् कुट्टिमहोदयः अकरोत्। 

  संस्कृताध्यापको भूत्वा केवलं छात्रशिक्षणमतिरिच्य संघटनाप्रवर्तनेन संस्कृतकार्यक्रमनिर्वहणेषु अभिरम्य संस्कृतप्रचारणं करोति इति लोकोपकारकाय भवतीति "हन्त! भाग्यं जनानाम्" इति नारायणीयश्कोकस्य व्याख्यारूपेण सः समर्थितवान्। उद्घाटनकार्यक्रमे के एस् टि एफ् राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्षपदमलङ्कृतवान्। राज्यस्तरीयकार्यदर्शिमुख्यः  सि पि सनलचन्द्रः संघटनस्य एतावत्पर्यन्तानां प्रवर्तनानामवलोकनं कृतवान्। पद्मनाभः, राजकृष्णः इत्यादयः भाषणमकुर्वन्। 

   आत्मा फौण्टेशन् संस्थायाः निदेशकः सि के सुरेशः नेतृत्वपरिशीलनवर्गं चालितवान्। विविधैः कार्यक्रमैः आयोजितं शिबिरं श्वः समाप्स्यते।