OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 24, 2023

 सच्चिन् टेन्टुकरस्य अद्य ५० तमं जन्मदिनम्। 


मुम्बई> विश्वक्रिक्ट् क्रीडकेषु वरिष्ठः सच्चिन् टेन्टुकरः अद्य ५० वयस्कः भविष्यति। क्रिकट् क्रीडायां ताडनस्य [batting] समस्तमपि सौन्दर्यं दशाब्दद्वयं यावत्  प्रेक्षकाणां समक्षं प्रदर्श्य आराधकानां मनसि ईश्वररूपेण वर्तमानः सच्चिनः क्रिकटस्य अभिमानं पर्यायरूपं चाभवत्। राष्ट्रस्य विविधेभ्यः क्षेत्रेभ्यः जन्मदिनाशंसाः प्रवहन्ति।

 

  १९८९ तमे वर्षे केवलं १६ वयस्कः सचिनः पाकिस्थानं विरुद्ध्य कराचिनगरे आयोजितायां निकषस्पर्धायामेव क्रिकट्क्रीडायां भारतीयक्रीडकरूपेण  प्रारम्भमकरोत्। तद्दिनादारभ्य २०१३ तमे वर्षे मुम्बय्यां वांखडे क्रीडाङ्कणे वेस्ट इन्डीसं विरुध्य निकषखेलनेन अन्ताराष्ट्रीयक्रीडेभ्यः सः विरतः अभवत्। २४ संवत्सराणां क्रिकट् जीवने एकैकं मुहूर्तं क्रिकट् चरित्रे आलिखितमस्ति। शतकेषु शतकं, निकषेषु तथा एकदिनेष्वपि अधिकाधिकतमं धावनाङ्काः, २०११ तमस्य विश्वचषकविजयप्राप्तिः इत्याद्यः नैकाः घटनाः आराधकानां मनस्सु सुवर्णप्रभां प्रपूर्य विद्यन्ते। 

  सच्चिन् टेन्टुल्कराय सम्प्रतिवार्तायाः जन्मदिनाशंसाः।