OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 21, 2023

 रष्य उक्रैन् युद्धसमापनाय निष्पक्षरष्ट्राणां संघः आवश्यकः इति ब्रसीलः।

                         जयराजः कोट्टारम्

ब्रसीलिया> रष्य युक्रेनयोः युद्धविरामाय निष्पक्षराष्ट्राणां संघरूपीकरणं अवश्यम् इति ब्रसील् राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवःअवदत्।युक्रैनाय शस्त्रसाहाय्यं कृत्वा पाश्चात्य राष्ट्राणि युद्धं दीर्घीकुर्वन्ति इति यदा रष्यायाः राष्ट्रपतेः व्लाडिमिर पुटिनस्य वादः अभवत्, तदा आसीत् सिलवस्य परामर्शः।२०२२ फेब्रुवारि मासे रष्य युक्रऐनस्य उपरि युद्धमाभत तदैव मध्यस्थाय श्रमः आवश्यकः इति अभिप्रायं डिसिल्वः  प्राकटयच्च। तन्मध्ये रष्यायाः विदेशकार्य सचिवः सर्जी लावरोव् सोमवासरे ब्रसीलियायां लुल ड सिलवम् अपश्यत्। तस्य अनुनयपरिश्रमेषु धन्यवादं उक्तवान् च। किन्तु लुलस्य निर्देशान् युक्रऐन् निराकरोत्। रष्यायाः आक्रमणेषु नाशितान् प्रदेशान् द्रष्टुं युक्रऐनं प्रति लुलं  आमन्त्रयत् च।