OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 21, 2023

 श्रीशङ्करजन्मदिनमहोत्सवः  - कालट्यां कार्यक्रमाः समारब्धाः।


कालटी> अद्वैतवेदान्तदर्शनस्य प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवस्य अंशतया जन्मभूम्यां कालट्यां मन्दिरेषु विविधाः कार्यक्रमाः समारब्धाः। एप्रिल् २५ तमे दिनाङ्के अस्ति जन्मदिनम्। 

  आदिशङ्करकुलदेवतामन्दिरे - श्रीकृष्णमन्दिरे- कनकधारायज्ञः समारब्धः। महालक्ष्मियन्त्रविधिमनुसृत्य सज्जीकृतानि महालक्ष्मियन्त्राणि महालक्ष्म्याः प्राणप्रतिष्ठां कृतानि सुवर्णरजतपञ्चलोहयुक्तानि आमलकानि च यज्ञवेदिकायां संस्थाप्य यज्ञक्रियाः समारब्धाः। १०००८ वारं कनकधारास्तोत्रजपं पूर्तीकृत्य आमलकानि प्रसादरूपेण वितरणं करिष्यति। श्रीशङ्करजयन्तिदिने २५ तमे दिनाङ्के ५० वयातीताः ३२ अम्बाः मातृवन्दनरूपेण समादरिष्यन्ते। 

   श्रृङ्गेरि जन्मभूमिमन्दिरे श्रीशङ्करजयन्तिमहोत्सवः २१ तमादारभ्य २५ दिनाङ्कपर्यन्तं सम्पत्स्यति। प्रतिदिनं श्रीशङ्करविजयं महाकाव्यपारायणं, शास्त्रार्थविद्वत्सभा इत्यादिकं मन्दिरकार्यक्रमान् विना भविष्यति। २५ तमेदिनाङ्के जयन्तिसम्मेलनं, सन्यासिसंगमः, रथोत्सवः इत्यादयः भविष्यन्ति। 

  आदिशङ्करकीर्तिस्तम्भमण्डपे अपि सविशेषपूजाहोमादयः २५ तमदिनाङ्कपर्यन्तं प्रतिदिनं भविष्यन्ति।