OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 13, 2023

 दक्षिणचीना समुद्रे यु. एस्. सैनिकव्यायमप्रदर्शनम्। ताय्वान् तीरे चीनस्य युद्धनौका:।

    - शोभा . के . पि.

     बेय्जिङ्> दिनत्रयस्य सैनिकव्यायामप्रदर्शनं समापितमिति प्रख्यापनं कृत्वा अपि ताय्वान् समुद्रे सैनिकसन्नाहं चीनेन अनुवर्तते। शनिवासरे ताय्वानं मण्डलीकृत्वा चीनेन सैनिकव्यायमप्रदर्शनम् आरब्धम् आसीत्। मङ्गलवासरे अपि नव युद्धनौकाः २६ युद्धविमानानि च पूर्वाताय्वान् तीरे अनुवर्तन्ते इति ताय्वान् प्रतिरोधमन्त्रालयः स्थितीकरणमकरोत्।

  चीनस्य प्रकोपनं जप्पानमपि अस्वस्थम् अकरोत्। जप्पान् देशस्य दक्षिणद्वीपाः ताय्वानस्य समीपे एव वर्तते। जप्पानस्य ओकिनाव द्वीपे यु. एस्. व्योमस्थानमपि वर्तते। विगते ओगस्ट् मासे चीनेन परीक्षितः अग्निसायकः जप्पानस्य तीरे पतितः आसीत्। 

   किन्तु इदानीम् ताय्वान् गभीरस्य समीपे एव दक्षिणचीनसमुद्रे फिलिप्पीन्स् - यु. एस्. राष्ट्रयोः सैनिकव्यायामप्रदर्शनम् आरब्धम् । १२,२०० यु. एस्. सैनिकाः,५४०० फिलिप्पीन्स् सैनिकाः, १११ ओस्ट्रेलियस्य सैनिकाः च भागं स्वीकुर्वन्तः सन्ति। संयुक्तवार्षिकपरिशीलनं २८ दिनाङ्कपर्यन्तं भविष्यतिI