OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 23, 2023

 लेख्यपत्राणि जीवकारुण्यभावेन  परिकल्पनीयानि- मुख्यमन्त्री पिणरायि विजयः।


       जगदीश्वरी एम् आर्


तिरुवनन्तपुरम् > केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् यत् सर्वकारीयाधिकारिभिः  सर्वकारीयशासनसम्बन्धीनि पत्राणि  जीवकारुण्यभावेन परिकल्पनीयानि। यदि अधिकारिणः पूर्णहृदयेन व्यवहारं कुर्वन्ति तर्हि प्रशासनं पूर्णतया जनोन्मुखं भविष्यति इति सः अवदत्।  सचिवालये उपकार्यदर्शीतः विशिष्टकार्यदर्शिपर्यन्तं समासीनान् उद्दिश्य एकस्यां सभायां भाषमाण‌ः आसीत् केरलस्य मुख्यमन्त्री।


मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् लेख्यपत्रे  स्पन्दमानं जीवनं भवति। एतादृशानि लेख्यपत्राणि म्रियमाणानि वा जीवनीयानि वा इति निर्णयं कर्तुं सर्वकारीयकर्मचारिणः एव  अधिकारिणः। अधःस्तरात् उपरिस्तरान् प्राप्यमाणानि  जीवनसम्बन्धीनि लेख्यपत्राणि कदाचित् प्रथमस्तरे एव म्रियेरन्। किन्तु   मृतप्रायानि एतानि  पुनः सजीवं कर्तुम् अधिकारिणः शक्ताः भवन्तु  इति मुख्यमन्त्री अवदत्।