OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 7, 2023

 सर्वविनाशम् अगच्छत्। कृत्रिमबुद्धिः परमाणुयुद्धापेक्षया अत्यधिकविनाशकारी इति गवेषकाः।

                           - रेवती के एम्

    प्रौद्योगिकविद्या नूतनयुगे कृत्रिमबुद्धियुगे प्रविशति। मनुष्यबुद्धिम् अतिक्रम्य कृत्रिमबुद्धेः उन्नतिम् इदानीं वयं पश्यामः। अद्यत्वे कृत्रिमबुद्ध्या दत्तांशानाम् कार्यनिर्वहणाय विद्यते। जीपीटी4 इति कृत्रिमबुद्धिः मनुष्यवत् भाषायाः प्रयोगाय शक्ता इति सर्वेषाम् आश्चर्यजनकमेव। एकतः कृत्रिमबुद्ध्या मानुषिककार्याणि सरलीकर्तुं शक्यते इति प्रतीक्षा वर्तते किन्तु विषयेऽस्मिन् आशङ्का वर्तते। अतः एतादृशीम् एकां पूर्वसूचनां ददाति कृत्रिमबुद्धेः गवेषकः एलिसर् युड्कोव्स्कि महोदयः। एतादृशानां तन्त्राणां निर्माणं न करणीयमिति, करोति चेत् पृथिव्यां सर्वे म्रियेरन् इत्यपि तेन महोदयेन टैं (time) पत्रिकायां लिखितम्।