OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 18, 2023

 वन्देभारतरेल् यानेन परीक्षणधावनं कृतम्। 


अनन्तपुरी> केरलाय नूतनतया लब्धं वन्देभारतनामकम् अर्धातिशीघ्ररेल् यानं गतदिने अनन्तपुरीतः कण्णूरपर्यन्तं परीक्षणधावनं कृत्वा प्रत्यागच्छत्। होरासप्तकं मिनिट्दशकं च कालं स्वीकृत्य एव कोट्टयं मार्गेण कण्णूर् निस्थानं सम्प्राप्तम्। इदानीम् अनेन मार्गेण सञ्चरतः शीघ्रतमात् रेल् यानात् सार्धहोराद्वयं यावत् न्यूनवेगेन लक्ष्यं प्राप्नोतीदं  नूतनयानम्। 

  कण्णूरतः मध्याह्नानन्तरं प्रतिनिवर्तनमारब्धं यानं ७. २० होराकालमुपयुज्य अनन्तपुरीं प्राप। किन्तु अस्य यानस्य परीक्षणधावशात् अन्येषां रेल् यानानां समये अर्धहोरां यावत् विलम्बः अभवत्।