OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 25, 2023

 नवभारतनिर्माणं युवतायाः वीक्षणानुसारं - प्रधानमन्त्री। 

युवजनसंगमे प्रधानमन्त्री नरेन्द्रमोदी युवकान् अभिवादनं करोति।

कोच्चि> नवभारतस्य निर्माणं राष्ट्रे विद्यमानानां युवजनानाम् अभिरुच्यनुसारमेव भवितव्यमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। कोच्चिनगरे आयोजिते युवं २३ नामके युवजनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री।

  नवराष्ट्रनिर्माणे  युवकानां नेतृत्वमभिलषति सर्वकारः। भारतं विश्वोत्तरशक्तिं कारयितुं युवतायाः वीक्षणानि निर्देशाः, तात्पर्यश्च अपेक्षितानीति सः उक्तवान्। 

  ह्यः सायं नौसेनाविमाननिलयं प्राप्तवान् नरेन्द्रमोदी तेवरा प्रान्ते पथसञ्चलनं कृत्वा वीथीपार्श्वयोः प्रपूरितान् सहस्रशः जनसञ्चयान् अभिवादनं कुर्वन् युवसंगमवेदिकायां प्राप्तवान्। केरलीयवेषविधानेन समागतं प्रधानमन्त्रिणं कलालय-विद्यालयछात्राः विभिन्नकर्ममण्डलेषु अभिरमन्तः युवतीयुवकाः, युवसन्यासिनः च सहर्षं स्वागतं कृतवन्तः। कला-सांस्कृतिक-परिस्थितिक्षेत्रेषु व्यक्तिमुद्रां समर्पितवन्तः युवजनाः प्रधानमन्त्रिणा सह वेदिकामपि अलंकृतवन्तः।