OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 20, 2023

 वन्दे भारतं कासरगोड् पर्यन्तं दीर्घितम्। द्वितीयं परीक्षणधावनमपि सम्पन्नम्।


 

नवदिल्ली> केरलाय अनुमोदिता वन्दे भारतरेल् यानसेवा कासरगोड् पर्यन्तं भविष्यतीति केन्द्र रेल्यानमन्त्रिणा अश्विनि वैष्णववर्येण निगदितम्। वन्दे भारतरेल् यानसेवामधिकृत्य विशदीकर्तुं समाकारिते वार्ताहरसम्मेलने भाषमाणः आसीत् सः।

  गतदिने द्वितीयं परीक्षणधावनमपि सम्पन्नम्। अनन्तपुरीतः प्रातः ५. २० वादने धावनमारब्धं वन्देभारतयानं ७. ५०होराकालं स्वीकृत्य कासरगोड् प्राप्तम्। प्रतिनिवर्तनयात्रायै ८ होराः पञ्चनिमेषान् च स्वीकृत्य अनन्तपुरीं सम्प्राप।