OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 26, 2023

 २०२४- यु. एस् राष्ट्रपति-निर्वाचनम्-: जो बैडनः कमला हारिसः च पुनरपि निर्वाचनक्षेत्रे भविष्यतः।

-रेष्मा एस् राज्

    आगमिनि संवत्सरस्य निर्वाचने स्पर्धिष्यतीति यु.एस् राष्ट्रपतिः जोबैडनः अवदत्। उपराष्ट्रपतिपदाय कमला हारिसः अपि निर्वाचनक्षेत्रे भविष्यतीति सूचना च प्राप्ता।रिप्पब्लिक् राजनैतिकदलस्य स्थानाशित्वपदे निर्वाचनक्षेत्रे भविष्यतीति पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि प्रख्यापितवान्। विगते दिने  चलनचित्रखण्डद्वारा आसीत् जोबैटनस्य स्थानाशीत्वे  प्रख्यापनम्।  गर्भच्छिद्राधिकारः, जनतन्त्रसंरक्षणम्, समाजसुक्षादयः भवन्ति समागम्यमानस्य संवत्सरस्य  प्रमुखाः विषयाः इति बैटनः अवोचत्। १९६९ वर्षात् परम् अमेरिक्कायां विद्यमान अतिन्यून अनुद्योगितामानः बैटनस्य विशेषार्जनं चेदपि अपमूल्यनं समस्यारूपेण अनुवर्तते। अपि च बैडनस्य वयाधिक्यमपि अमेरिक्कीयानां जनानां मनस्सु समस्यां सृजति।