OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 19, 2023

 कोविड् इव नूतना महामारी? साध्यतां सूचयित्वा गवेषण फलानि। 

-रणिमोल् एन् एस् 

    लण्डन्>  सामान्यजीवनं परिवर्तयन्त्याः कोविड् महामार्याः आगमनानन्तरं वर्षत्रय: अतीत:। एयर्फिनिटी नामिका प्रवचनात्मक स्वास्थ्यविश्लेषणसंस्थया (Predictive Health Analytic Institution) इदानीं दशसंवत्सराभ्यन्तरे कोविड् सदृशायाः अन्यस्याः महामार्याः साध्यता अस्ति इति सूचिता अस्ति। संस्थया एवम् अनुमीयते यत् अस्य आगमनस्य साध्यता प्रायः प्रतिशतं २७.५ अस्ति इति। न केवलं वैराणुः अपि तु वातावरणस्य परिवर्तनं, पशुजन्यरोगाश्च एतादृशानां रोगाणां कारणभूता: भवेयु: इति संस्थया उल्लिखिता अस्ति। कठिनता अपि अतितीव्रतां गच्छेत् यदा एकस्मिन् दिने बहूनां जनानां मृत्युः भवितुम् अर्हति इत्यपि एयर्फिनिटी नामिका संस्थायाः विज्ञप्तौ उक्तम्।