OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 28, 2023

 सुडाने युद्धविराममुल्लङ्घ्य व्योमाक्रमणं - अद्यावधौ ५१२ मरणानि। 

खार्तूम्> अन्तःछिद्रेण कलुषिते सुडानदेशे घोषितं दिनत्रयात्मकं युद्धविरामसन्धिम्  उल्लङ्घ्य  सेना अर्धसेना च पुनश्च युद्धमारभेताम्। राजनगर्यां खार्तूमे शक्तं व्योमाक्रमणमापन्नम्। आर् एस् एफ् नामकार्धसेनाकेन्द्रे डार्फरस्थाने  सेनाद्वयस्य प्रतिद्वन्द्वः अभवत्। तीव्रसंघट्टनं कारणतः सन्नद्धसंघटनैः आरब्धानि रक्षाप्रवर्तनानि स्थगितानि। 

  एप्रिल् १५ तमे दिनाङ्के प्रतिद्वन्द्रे अद्यावधि ५१२ जनाः मृत्युमुपगताः। ४१९३ जनाः व्रणिताः जाताश्चेति सुडानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। सहस्रशः नागरिकाः अधुनापि पलायनं कुर्वन्ति।