OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 10, 2023

 राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा प्रकाशितम्। 

आराष्ट्रं ३१६७ व्याघ्राः। 

मैसुरु> भारतस्य राष्ट्रियपशोः व्याघ्रस्य संरक्षणार्थं केन्द्रसर्वकारेण आयोजितस्य 'प्रोजक्ट् टैगर्' नामकस्य ५० तमे वार्षिके नूतनं राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशितम्। २०२२ तमसंवत्सरस्य गणनानुसारं राष्ट्रे आहत्य ३१६७ व्याघ्राः सन्ति। गतसंख्यागणनामपेक्ष्य २०० व्याघ्राणां वर्धनमस्ति। 

   व्याघ्रसंरक्षणवनप्रदेशानां क्षेत्रीयगणना एव कृता। प्रतिराज्यं व्याघ्रसंख्या इतःपरं प्रकाशयिष्यते।