OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 18, 2023

 आरक्षकदलं साक्षीकृत्य उत्तरप्रदेशे नरहत्या।

भूतपूर्वः लोकसभासदस्यः अनुजश्च भुषुण्डिप्रयोगेण हतौ।

     लख्नौ> उत्तरप्रदेशे राजनैतिकदलनेता तथा शताधिकेषु दण्ड्यपराधप्रकरणेषु अभिशंसकश्च अतीख अहम्मद‌ः [६०] तस्य सोदरः अषरफ् अहम्मदश्च शनिवासरनिशायां भुषुण्डिप्रयोगेण हतौ। एकस्मिन् हत्याप्रकरणे आरक्षकावेक्षणे वर्तमानावेतौ रात्रौ वैद्यपरिशोधनाय यदा प्रयागराजस्थे आतुरालयं नीतौ तदा एव अप्रतीक्षितमाक्रमणं दुरापन्नम्। वार्ताहरव्याजेन आगताः त्रयः युवकाः एव भुषुण्डिप्रयोगं कृतवन्तः। 

  हत्याघटनायमस्यां बन्दा प्रदेशीयः लवलेश तिवारी, हमीर्पुरनिवासी सण्णि सिंहः, कासगञ्चीयः अरुण मौर्यः इत्येते त्रयः आरक्षकदलेन निगृहीताः। 

  शताधिकेषु प्रकरणेषु अपराधी अतीख् अहम्मदः अप्ना दलं, एस् पि इत्येतयोः राजनैतिकदलयोः नाम्नि तथा  स्वतन्त्ररूपेण च षट्वारं जनप्रतिनिधिः आसीत्। तस्य पुत्रः आसादः सप्ताहात् पूर्वं आरक्षकदलेन सह प्रतिद्वन्द्वे हतः आसीत्।