OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 19, 2023

उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालये प्रति-बुधवासरं हरितक्षेत्रमित्युद्घोषितम्।

 वार्ताहर:- डॉ. दिनेश: चौबे

  उज्जयिनीस्थे महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालये पर्यावरणस्य संरक्षणाय प्रति-बुधवासरं हरितक्षेत्रम् (Green zone) इति घोषितोऽस्ति। अस्मिन् दिने परिसरे वाहनानां प्रवेशो वर्जित: वर्तते। गतवर्षादारभ्य अयं नियम: प्रवर्तते। विश्वविद्यालयस्य माननीयकुलपति: आचार्य-विजयकुमार-सी जी वर्य: उक्तवान् यत्- ‘अनेन पर्यावरणस्य संरक्षणं भविष्यति। वयं वायुजलमृद्भिरावृत्तेः वातावरणे निवसामः। एतदेव पर्यावरणं कथ्यते। पर्यावरणेनैव जीवनोपयोगिवस्तुनी प्राप्नुमः। जलं वायुश्च जीवने महत्त्वपूर्णो स्तः। साम्प्रतं प्रदूषणसमस्या वर्तते। अनेन विविधाः रोगाः जायन्ते। पर्यावरणस्य संरक्षणमत्यावश्यकम्। तदर्थं वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम। तैलरहितवाहनानां प्रयोगः करणीयः। जनाः तरूणां रोपणमभिरक्षणञ्च कुर्युः’ इति संदेश: तेन समाजे जागृतिमानेतुम् दत्त:। एभिः कार्यैः अन्यजना: अपि प्रेरिताः भवन्तीति। सप्ताहे एकवारम् आवश्यकरूपेण वाहनाम् उपयोगं विनैव चलामः। द्विचक्रिकया आहोस्वित् पादाभ्याम् अवश्यं चलनीयम् अनेन तैलस्य रक्षणं स्वास्थ्यलाभो च जायते ।