OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 19, 2023

 एतौ पक्षिविशेषौ स्पृशति चेत् मरणं भविष्यति। न्यूगिनियायां विषमयखगविशेषौ सन्दृष्टौ।

   गृहे वयं मनोहरवर्णयुक्तान् प्रियङ्करान् पक्षिविशेषान् पालयामः। किन्तु स्पृशति चेत् मरणकारणभूतं विषं दुर्वमन्तं पक्षिद्वयविभागमपि वैज्ञानिकलोकेन संदृष्टम्।  अध्ययनस्य अस्य पृष्ठतः डानिषस्य वैज्ञानिकाः एव। विषमयं भक्षणं भुङ्क्त्वा तत् ते स्वपक्षेषु विषरूपेण परिवर्तयितुं सक्षमौ भवतः  एतौ पक्षिविशेषौ। कुरियस्य विषमण्डूकस्य विषसमानं भवति एतैः पक्षिविभागैः दुर्वमन्तं विषमिति वदन्ति। एताभ्यां सह सम्पर्कः भविष्यति चेत् हृदयाघातःभवेत् इति पूर्वसूचना अस्ति। रीजन्ट् विस्लर् अथवा पाचिसेफालाष्लेगि (pachycephala schlegelii), रुफाय् नाप्पट् बेल्बेड् अथवा अलेन्द्रियास् रूफिनुका (Aleadryas refinucha) इत्यादिभ्यां विभागाभ्यां एव एतौ संदृष्टौ।