OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 23, 2023

 जम्मू मध्ये भीकराक्रमणं - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

पूञ्च् [जम्मु काश्मीरं]> जम्मु काश्मीरस्य पूञ्च् प्रदेशे सेनावाहनं प्रति कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युमुपगताः। एकः आहतश्च। गुरुवासरे आसीदियं घटना।

  भीकरविरुद्धयुद्धाय नियुक्ताः राष्ट्रिय रैफिल्स् एककस्य  सैनिकाः ये आसन् ते एव आक्रमणविधेयाः अभवन्। तेषां यानं रजौरिक्षेत्रस्थात् भीम्बर् गलि स्थानात् पूञ्चं प्रति गच्छदासीत्। त्रिभ्यः पार्श्वेभ्यः भीकराः भुषुण्डिप्रयोगमकुर्वन्। क्षेपणस्फोटकमपि  प्रक्षिप्तम्। अनेन यानम् अग्निदग्धमभवत्। संघे चत्वारः भीकराः आसन्निति मन्यते। 

  दुर्घटनायां केन्द्रसर्वकारः दुःखं प्राकाशयत्। प्रतिक्रिया प्रक्रमाः आरब्धाः। प्रदेशे निलीयमानेभ्यः भीकरेभ्यः सैन्येन अन्वीक्षणम् ऊर्जितत्वेन  कारितमस्ति।