OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 28, 2024

 टि - २० भारत-दक्षिणाफ्रिका अन्तिमस्पर्धा। 

इङ्लण्टं पराजितवतः भारतदलस्य आह्लादः। 

गयाना> टि-२० विश्वचषकक्रिकट् स्पर्धाश्रृङ्खलायाः पूर्वान्यचक्रे दक्षिणाफ्रिका भारतं च विजयपीठं प्रापतुः। शनिवासरे रात्रौ बार्बडोसनगरे अन्तिमस्पर्धा भविष्यति। 

   गतदिने ट्रिनिडाड् नगरे सम्पन्ने पूर्वान्त्यचक्रस्य प्रथमस्पर्धायां  दक्षिणाफ्रिका अफ्गानिस्थानं नव कन्दुकताडकानां बलेन पराजयत। अङ्कोपलब्धिः - अफ्गानिस्थानं ११. ५ क्षेपणचक्रे ५६ धावनाङ्कैः सर्वे बहिर्नीताः। दक्षिणाफ्रिका - ८. ५ क्षेपणचक्रे एकेन ताडकविनष्टेन ६० धावनाङ्काः। 

  रात्रौ गयानानगरे सम्पन्नायां  द्वितीयस्पर्धायां वर्तमानवीरः इङ्लण्टदलः भारतेन ६८ धावनाङ्कैः पराजितः। वर्षापातेन मध्ये मध्ये स्थगिते प्रथमचरणे निश्चिते २० क्षेपणचक्रे भारतं सप्त क्रीडकानां विनष्टेन १७१ धावनाङ्कान् उपालभत। प्रत्युत्तररूपेण इङ्लण्टदलः १०३ धावनाङ्कान् समाहृत्य बहिर्गतः। रोहितशर्मा [५७/३९], सूर्यकमारयादवः [४७/३६] च भारतस्य विजयशिल्पिनौ।