OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 13, 2024

 कुवैट् मध्ये कर्मकराणां वासमन्दिरे अग्निप्रकाण्डः - ४९ जनानां जीवहानिः।

अग्निकाण्डबाधितः वाससमुच्चयः। 

 

४२ भारतीयाः; तेषु १०केरलीयाः। 

कुवैट् सिटी> कुवैट् राष्ट्रस्य मंगेफ् नामकनगरे वर्तमाने कस्याश्चित् निजीयकम्पन्याः कर्मकरैः सेवाकरैश्च वासं क्रियमाणे गृहसमुच्चये दुरापन्नेन अग्निकाण्डेन ४९ जनाः मृताः। तेषु ४२ जनाः भारतीयाः भवन्ति। चत्वारिशदधिकं जनाः आहताः वर्तन्ते। मृतेषु दश केरलीयाः सन्ति। 

  बुधवासरे प्रत्युषसि चतुर्वादने वाससमुच्चयस्य अधस्तरस्थात् सुरक्षाप्रकोष्ठात्  प्रथमं अग्निबाधा जातेति सूच्यते। ततः पाकशालस्थान् अनिलकोशान् अग्निबाधा अभवदिति दुरन्तस्य व्याप्तिमवर्धयत। 

  झटित्येव कुवैट्प्रशासनस्य नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। भारतस्य विदेशकार्यमन्त्रालयेन मृतान् आहतान् च प्रत्यभिज्ञातुं प्रक्रमाः विधत्ताः।