OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 17, 2024

 प्रसिद्धः वेदान्तपण्डितः प्रोफ के पि बाबुदासः दिवंगतः। 


कालटी> विख्यातः संस्कृतपण्डितः वेदान्तशिरोमणिः प्रभाषकः ग्रन्थकर्ता च प्रोफ के पि बाबुदासः दिवंगतः। ७२ वयस्कः आसीत्। कालटि श्रीशङ्करकलालये वेदान्तविभागे आचार्यः आसीत्। भारतस्य विख्यातेषु वेदान्तपण्डितेषु अन्यतमस्य तस्य आभारतं विपुला  शिष्यसम्पच्चास्ति। 

  श्रृङ्गेर्यां प्रतिवर्षं गणपतिवाक्यार्थसदसि तथा कालटि श्रृङ्गेरिमठे आयोज्यमानेषु श्रीशङ्करजयन्ति वाक्यार्थसदस्सु च स्थिरं सान्निध्यमासीत्। श्रेष्ठः प्रभाषकः साहित्यकारश्चायं कैरल्यै अपि वरिष्ठं योगदानं दत्तवान्। 'अरङ्ङ्', अहं ब्रह्मास्मि इत्याख्यायिकाद्वयं समेत्य बहवः ग्रन्थाः तस्य नाम्नि वर्तन्ते। दार्शनिकक्षेत्राय साहित्यलोकाय च दत्तं योगदानमालक्ष्य अनेके पुरस्काराः तस्मै लभन्ते स्म। माम्मन् मापिला, कैरली चिल्ड्रेन बुक् ट्रस्ट्,कलामण्डलं पुरस्काराः कतिपयाः भवन्ति। श्रृङ्गेरी शारदापीठात् वेदान्तपाण्डित्याय लब्धं सुवर्णाङ्गुलीयं, भारतीतीर्थपुरस्कारः, श्रीशङ्कर कल्चरल् सोसैटि इत्यस्मात् लब्धः विज्ञानपीठं पुरस्कारः इत्याद्यः बह्व्यः बहुमत्यः तं प्रति समागताः।