OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 19, 2024

 इस्रयेले युद्धकार्यमन्त्रिमण्डलं नेतन्याहुः व्यसर्जत्। 

टेल् अवीव्> गासायुद्धे सुप्रधाननिर्णयान् विदधमानाम्  इस्रयेलस्य युद्धकार्यमन्त्रिसभां प्रधानमन्त्री बञ्चमिन् नेतन्याहुः व्यसृजत्। युद्धप्रकरणे  नेतन्याहोः क्रियाव्यवहारे प्रतिकूलतां प्राकट्य भूतपूर्वः रक्षामन्त्री जनरल् बन्नि ग्लान्स् त्यागपत्रं समर्पितवानासीत्। गासायां युद्धविराममालक्ष्य यू एस् राष्ट्रपतेः जो बैडनस्य आशयः नेतन्याहुना तिरस्कृतः इत्यतएव गान्सस्य स्थानत्यागः। एतदनुबन्ध्य आसीत् युद्धकार्यमन्त्रिसभायाः विसर्जनम्। अनेन नव मासान् यावत् अनुवर्तमाने युद्धविषये  सर्वकारस्य अनैक्यं स्पष्टमभवत्।