OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 15, 2024

 स्वप्नान् अवशेष्य ते निश्चेतनशरीराः प्रत्यागतवन्तः। 

राज्यसर्वकाराय मन्त्रिमण्डलेन सह मुख्यमन्त्री पिणरायि विजयः श्रद्धाञ्जलिं समर्पयति। समीपे विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेष् गोपिश्च। 

शोकाश्रुभिः सह देशस्य अन्त्याञ्जलिः। 

कोच्चि> कुवैटे अग्निकाण्डे अकालमृत्युं प्राप्तवतां ४५ भारतीयपुरुषाणां मृतदेहान् ऊढ्वा भारतव्योमसेनायाः IAF C3oj विमानं शुक्रवासरे प्रभाते १० .२७ वादने कोच्चि अन्ताराष्ट्रियविमानिलयं प्राप। मृतप्रवासिनां  ३१ पुरुषाणां बन्धुजनाः  दुःखभारहृदयैः अश्रुपूर्णनयनैश्च प्रतीक्षन्ते स्म। स्वमन्त्रिमण्डलेन सह  राज्यमुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेश गोपिः इत्यादयः जननेतारः बन्धुजनान् आश्वासयितुम् अनन्तरप्रवर्तनानि समायोजयितुं च यथासमयं निलयं प्राप्तवन्तः। मृतदेहान् स्वीकृत्य अन्त्योपचारान् समर्प्य स्वकीयस्थानान् प्रति प्रेषयितुं जनपदाधिकारिणः एन् एस् के उमेश् वर्यस्य नेतृत्वे आम्बुलन्स् यानादिकं सर्वं सज्जीकृतमासीत्। १०. ४५ वादने केन्द्रविदेशकार्यसहमन्त्री वि के सिॆहस्य नेतृत्वे विमानसेवकाः २३केरलीयान् समेत्य ३१ प्रवासिनां भौतिकशरीराणि विमानतः बहिर्नीत्वा पूर्वमेव सज्जीकृतेषु मञ्चेषु शायितवन्तः। ११. ३० वादने राज्यमन्त्रिमण्डलेन सह मुख्यमन्त्री, केन्द्रसहमन्त्री सुरेष् गोपिः, इतरे जननेतारः अधिकारिणश्च अन्त्योपचारान् समर्पितवन्तः। राज्यसर्वकारस्य आदरसूचकः 'गार्ड् ओफ् ओणर्' बहुमतिश्च दत्तः। अनन्तरं १२. १५ वादने बन्धुजनेभ्यः मृतदेहाः समर्पिताः। 

   अनन्तरं २३ केरलीयप्रवासिनः अष्ट तमिल-कन्नटीयाः च निश्चेतनशरीराः  प्रतिनिवृत्तरहिताः च सन्तः बान्धवैः साकं  स्वस्ववासगृहं प्रति अन्त्ययात्रामारब्धवन्तः।

  अवशिष्टान्  १४ मृतदेहान् ऊढ्वा वायुसेनाविमानं दिल्लीं प्रस्थितम्। तस्मिन् अन्ध्रियाः अन्यराज्यीयाः प्रवासिदेहाः आसन्।