OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 10, 2024

 प्रौढः, प्रोज्वलः - मोदी ३.० शपथसमारोहः। 

नरेन्द्रमोदिवर्यः प्रधानमन्त्रिरूपेण शपथवाचनं करोति।

नवदिल्ली> राष्ट्रपतिभवने सम्पन्नः नरेन्द्रमोदी सर्वकारस्य तृतीयसंस्करणस्य  शपथवाचनसमारोहः प्रौढः, प्रोज्वलश्च समभवत्। अनेकेषां विदेशराष्ट्रनेतॄणां राष्ट्रस्य भिन्नमण्डलेभ्यः आमन्त्रितानां जनानां च सान्निध्ये नरेन्द्रमोदिनः नेतृत्वे ७२ अंगात्मकं एन् डि ए मन्त्रिमण्डलं सत्यशपथं कृत्वा अधिकारं स्वीकृतवत्। प्रधानमन्त्रिणं विना ३० संख्याकं 'क्याबिनट्' मन्त्रिणः, ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च मन्त्रिमण्डले अन्तर्भवन्ति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या सर्वैः शपथवाचनम् अकारयत्। 

   प्रथमं नरेन्द्रमोदी ईश्वरनाम्नि राष्ट्रभाषायां शपथवाचनमकरोत्। तदनन्तरं वरिष्ठाः राजनाथसिंहः, अमित् शाहः, नितिन गड्करी, जे पि नड्डः, शिवराजसिंहचौहानः, निर्मला सीतारामः, इत्यादयः  भाजपा-एन् डिए नेतारः सत्यशपथमकुर्वन्।