OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 29, 2024

 विदेशकेदाराणां रक्षादौत्याय केरलस्य 'ड्रोण्'यन्त्राणि। 

फिया क्यू डि १० ड्रोण् यन्त्रेण सह देवन् चन्द्रशेखरः,देविका, प्रौद्योगिकाधिकारी अतुलः च। 

कोच्चि> विदेशराज्याणां गोधूम-बार्ली-कनोला केदारेषु ऊर्वरकप्रयोगः औषधप्रोक्षणम् इत्यादिषु कर्मसु केरले जातानि ड्रोण् यन्त्राणि सज्जानि सन्ति। आलप्पुष़ा जनपदे चेर्तला पट्टणक्काट् पुरवासिनौ देवन् चन्द्रशेखरः, तस्य सोदरी देविका, इत्यनयोः नेतृत्वे आरब्धः कार्षिकसंरम्भः 'फ्यूसलेज् इनवेषन्स्' [Fuselage Innovations] इत्यनेन निर्मितानि ड्रोण् यन्त्राणि विदेशराष्ट्रेषु  कार्षिकसाह्यं यच्छन्ति।  यू के, कानडा राष्ट्राभ्यां २५ संख्यकानां यन्त्राणाम् आदेशपत्रं लब्धम्।जूलाय् मासान्ते यन्त्राणि विदेशं नेष्यन्ति। 

  'फिया क्यू डि १०' इति कृतनामधेयानि एतानि यन्त्राणि १६० संख्याकानि अस्मिन् वर्षे केरलम्, आन्ध्रप्रदेशः, कर्णाटकं, राजस्थानं, तमिलनाटु राज्येषु  विक्रीतानि सन्ति। १० लिटर् परिमितशेषीयुक्तानि एतानि २५ मिनिट् कालं यावत् डयित्वा सम्यक् रीत्या ऊर्वरकौषधानि प्रोक्षिष्यन्ति। एकस्य यन्त्रस्य मूल्यं ५ लक्षतः ९ लक्षपर्यन्तमस्ति। 

  कोच्चि नगरस्थे कलमशेरि 'मेकर् विल्लेज्' मध्ये आरब्धाय अस्मै संरंभाय केन्द्रव्योमयानमन्त्रालयस्य अङ्गीकारः २०२३ तमे वर्षे लब्धः।