OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 26, 2024

 केरले वर्षाकालः प्रबलः। 

व्यापकनाशः, उपदशजनाः मृताः। 

कोच्चि> केरलराज्ये दक्षिणपश्चमीयः मण्सूण् वर्षाकालः प्रबलः जातः। आकेरलं लक्षद्वीपसमूहे च शक्ता वर्षा अनुवर्तते। 

  केरले भूरिशः जनपदेषु वर्षाकालदुष्प्रभावः जनजीवने दुरितं वपति। वृक्षप्रपातेन मृत्पातेन च नैकानां जनानां जीवहानिरजायत। एरणाकुलं जनपदे नेर्यमङगलं स्थाने वृक्षः चलतः कार् यानस्योपरि पतित्वा एकः मृतः। अन्ये त्रयः यात्रिकाः आहताः। इटुक्कि जनपदे गृहस्योपरि मत्पतित्वा गृहनाथा दिवंगता। कण्णूर्जनपदे अपि समानरीत्या चत्वारः जनाः मृत्युमुपगताः।

  तिरुवनंतपुरम्, आलप्पुष़ा, कोल्लं  कण्णूर् इत्यादिषु जनपदेषु प्रचण्डवातेन वृक्षाः मूलोत्पाटिताः सन्तः गृहाणां वाहनानां चोपरि पतित्वा बहुनाशः अभवत्।