OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 24, 2024

 टि - २० 'सूपर् ८ - आस्ट्रेलिया अफ्गानिस्थानेन पराजिता।

अद्य भारत-आस्ट्रेलिया प्रतिद्वन्द्वः। 

किङ्स्टण्> टि - २० विश्वचषकस्पर्धाश्रृङ्खलायाः 'सूपर् ८' इति कृतनामधेये प्रपूर्वान्त्यचरणे आस्ट्रेलियादलस्य अप्रतीक्षितपराजयः। गतदिने सामान्येन दुर्बलेन  अफ्गानिस्थानेन सह सम्पन्ने प्रतिद्वन्द्वे आस्ट्रेलियादलः २१ धावनाङ्कैः पराजितः। स्पर्धायाः प्रथमपादे कन्दुकताडनं कृतवता  अफ्गानिस्थानेन २० क्षेपणचक्रैः ८ ताडकविनष्टे १४८ धावनाङ्कानि सम्प्राप्तानि। प्रत्युत्तररूपेण ताडनक्रियामारब्धवान् आस्ट्रेलिया दलः १९. २ क्षेपणचक्रे १२७ धावनाङ्कान् आसाद्य सर्वे बहिर्गताः। अफ्गानिस्थानाय २१ धावनाङ्कानां परिवर्तनविजयः!

  अद्य सायं भारतेन अग्निपरीक्षणं प्रतीक्षते। अफ्गानिस्थानेन पराभवं स्वीकृत्य कथञ्चिदपि विजयलाभाय दृढनिश्चयेन आगम्यमानः आस्ट्रेलिया दल एव भारतस्य प्रतियोगी। क्रीडितां सर्वक्रीडां विजयीभूतः इत्यमितात्मविश्वासेन एव भारतस्य आगमनम्। अद्यतनक्रीडायां केवलविजयेनैव भारतस्य पूर्वान्त्यचक्रप्राप्तिः।