OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 6, 2024

 लोकसभानिर्वाचनं - एन् डि ए सख्याय निष्प्रभविजयः। 

मोदिनः नेतृत्वे तृतीयं प्रशासनं नवमदिनाङ्के। 

नवदिल्ली> भारतस्य अष्टादशे लोकसभानिर्वाचने भाजपादलेन नेतृत्वमावहते एन् डि ए सख्याय प्रतीक्षितः विजयः न लब्धः। भाजपादलनेतृत्वेन ४०० स्थानानि अभिमानितानि तथापि निष्क्रमणाधिष्ठितमतगणनासु  ३५० अधिकानि स्थानानि च प्रोक्तानि। किन्तु सख्यं २९१ स्थानैः तृप्तमभवत्। किन्तु विपक्षदलः 'इन्डिया' सख्यं आभारतं २३४ स्थानैः ऊर्जस्वलं प्रत्यागमनं कृतम्। 

  आहत्य ५४३ स्थानेषु एन् डि ए सख्येन प्राप्तेषु २९१ स्थानेषु २४० संख्याकं भाजपा दलस्य भवति। दलेनैव २७२ इति सर्वकाररूपीकरणयोग्या अवश्यसंख्याप्राप्तिः लप्स्यते इत्यभिलाषः व्यर्थः जातः। कोण्ग्रस् दलेन नेतृत्वमावहतः इन्डिया' सख्यस्य २३४ स्थानेषु कोण्ग्रस् दलेन ९९ स्थानानि प्राप्तानि। स्वतन्त्रादिभिः  अन्यैः १८ स्थानानि च प्राप्तानि। 

  नरेन्द्रमोदिनः नेतृत्वे नूतनं मन्त्रिमण्डलं जूण् ९तमे दिनाङ्के शपथवचनं करिष्यति। मोदिवर्यः तृतीयवारमेव प्रधानमन्त्रिपदं प्राप्नोति।