OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 22, 2024

 बङ्गलुरु मध्ये द्वितीयं विमाननिलयमागच्छति।

बङ्गलुरु> कर्णाटके बङ्गलुरुप्रान्ते द्वितीयं विमाननिलयं निर्मातुं राज्यसर्वकारेण निश्चितम्। एतदर्थं भूक्षेत्रमधिगन्तुं यत्नः आरब्धः। परियोजनायाः साध्यतावेदनं समर्पयितुं मन्त्रिणा एम् बि पाटीलेन निर्दिष्टम्। 

  इदानीं बङ्गलुरुमध्ये केम्पगौडा अन्ताराष्ट्रियविमाननिलये सप्ततिलक्षाधिकत्रिकोटिपरिमिताः यात्रिकाः चतुर्लक्षं टण् परिमितं पण्यवस्तून्यपि व्यवह्रियन्ते। राष्ट्रस्य बहुसम्मर्दयुक्तं तृतीयं व्योमयाननिलयमिति सविशेषताप्यस्ति। 'तूमकुरु मार्गे' भवेत् द्वितीयं निलयमिति सूच्यते।