OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 14, 2024

 कुवैट् अग्निकाण्डदुरापन्नः - आहत्य मरणानि ४९ ; भारतीयाः ४६;  तेषु केरलीयाः २४। 

कुवैट् सिटि> गतदिने मंगेफनगरे कर्मकराणां वाससमुच्चये दुरापन्ने अग्निकाण्डे मृतानां भारतीयानां संख्या ४६ अभवत्। अन्ये त्रयः फिलिप्पीनियाः इति सूच्यते। दुर्घटनायां मृतानां केरलीयानां संख्या २४ इति वर्धिता। 

  कोल्लं, पत्तनंतिट्टा, कण्णूर्, मलप्पुरं, आलप्पुष़ा, कासरकोट्, तिरुवनन्तपुरं जनपदवासिनः भवन्ति मृतेषु भूरिशः। सर्वेSपि स्वस्वपरिवारस्य एकैकाश्रयभूताः आसन्निति देशस्य शोकं द्विगुणीकरोति।