OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 12, 2024

 मलावी उपराष्ट्रपतिः विमानदुर्घटनया मृतः।

सौलोस् चिलिमः। 

नव सहयात्रिकाश्च विनष्टप्राणाः। 

लिलोङ्वे> दक्षिणपूर्वीय आफ्रिक्कादेशः मलावी इत्यस्य उपराष्ट्रपतिः सौलोस् चिलिमः [५१] ९ सहयात्रिकाश्च विमानदुर्घटनया मृताः। राष्ट्रपतिना लासरस् चक्वेरा इत्यनेन ह्यः दूरदर्शनद्वारा इदं वृत्तान्तं विज्ञापितम्। 

  राष्ट्रराजधानी लिलोङ्वे इत्यस्मात् ३७० कि मी उत्तरदिशि एंसुसु स्थानं गतं विमानं सोमवासरे अप्रत्यक्षमभवत्। उत्तरदिशि वर्तमाने 'विफ्य' पर्वतप्रान्तीये काननक्षेत्रे ६०० जनैः दिनैकं यावत् विधत्ते अन्वेषणे दशजनानां मृतशरीराणि अधिगतानि। अननुकूलं पर्यावरणमेव दुर्घटनायाः कारणमिति मन्यते।