OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 23, 2024

 कोष़िक्कोट् साहित्यनगरं - प्रख्यापनम् अद्य। 

युनेस्को संस्थायाः साहित्यनगरपदं लभ्यमानं राष्ट्रस्य प्रथमनगरम्। 

कोष़िक्कोट्> युनेस्कोसंस्थया साहित्यनगरम् इति कोष़िक्कोटस्य चयनं गतवर्षे ओक्टोबर् मासे आसीत्। तस्य औपचारिकं प्रख्यापनम् अद्य सायं ५. ३० वादने नगरस्थे मुहम्मदअब्दुल् रहमान् स्मारक मण्डपे राज्यस्य सांस्कृतिकविभागमन्त्रिणा एम् बी राजेष् वर्यः विधास्यति। भारतस्य प्रथमं पैतृकसाहित्यनगरं भवति कोष़िक्कोट्। 

  ज्ञानपीठपुरस्कारेण समादृताः एस् के पोट्टकाट्, एम् टि वासुदेवन् नायर्, अक्कितम् अच्युतन् नम्पूतिरिः  इत्येतान्  विना वैक्कं मुहम्मदबषीर्, उरूब्, सञ्जयः, कुट्ट्कृष्णमारारः,  तिक्कोटियन्, एन् पि मुहम्मद, एन् एन् कक्काट्, वत्सला, यू ए खादर्, सुभाष् चन्द्रन् इत्यादीनाम् अनेकेषां साहित्यसपर्यायाः केन्द्रं भवतीदं नगरम्। ५०० अधिकाः ग्रन्थशालाः ७० अधिकाः पुस्तकप्रसाधकशालाः च अस्मिन् नगरे विद्यन्ते। तदुपरि राष्ट्रस्य प्रमुखा पुरातनी  संस्कृतपण्डितसभा 'रेवती पट्टत्तानं' नामिका अत्रैव प्रचलति स्म। 

  विश्वस्य सर्गात्मकनगराणां नूतनायां पट्टिकायामेव कोष़िक्कोट् अन्तर्भूतम्। मध्यप्रदेशस्थाय ग्वालियोर् नगराय संगीतनगरमिति पदमपि लब्धम्।