OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 19, 2024

 नीट् परीक्षाव्यतिक्रमः - सर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषयन् सर्वोच्चन्यायालयः। 

"लघुव्यतिक्रमस्यापि कर्कशप्रक्रमः आवश्यकः।"

नवदिल्ली> वैद्यशास्त्रबिरुदप्रवेशपरीक्षायाः आयोजने यदि यस्मात्  कस्माच्चित् पक्षतः लघ्वपि व्यतिक्रमः अभवत् तर्हि तान् अपराधिनः विरुध्य कर्कशः प्रक्रमः करणीयः इति सर्वोच्चन्यायालयस्य विरामकालपीठेन प्रस्तुतम्। मेय् पञ्चमदिनाङ्के विधत्तायां परीक्षायां छात्रेभ्यः अनुकम्पाङ्काः अनुमोदिताः इत्यादिप्रकरणान् परिपृच्छ्य समर्पितासु याचिकासु नीतिपीठेन केन्द्रसर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषितम्। सप्ताहद्वयाभ्यन्तरे प्रत्युत्तरं दातव्यम्। 

  न्यायाधीशौ विक्रमनाथः, एस् वि एन् भट्टिः इत्येताभ्यां समेतेन नीतिपीठेन निरीक्षितं यत् ०. ००१ प्रतिशतं दुराचारः कृतः चेदपि कर्कशः प्रक्रमः करणीयः। छात्राणां कठिनप्रयत्नः माननीयः, कुत्सितमार्गेण यः कोSपि वैद्यः अभविष्यत्तर्हि तत् समाजाय दोषः भविष्यतीति च नीतिपीठेन अभिप्रेतम्।