OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 9, 2024

 मोदिनः शपथवाचनसमारोहे विदेशराष्ट्रनेतारः भागं स्वीकुर्वन्ति।

नवदिल्ली> भारते नरेन्द्रमोदिनः नेतृत्वे अद्य सायं सम्पत्स्यमाने स्वस्य तृतीये मन्त्रिमण्डलशपथवाचनसमारोहे विदेशराष्ट्रनेतारः अपि भागं करिष्यन्ति। मालद्वीपस्य राष्ट्रपतिः डो मुहम्मद मुयिसुः, सेय्सल्स् राष्ट्रस्य उपराष्ट्रपतिः अहम्मद अफीफः, मौरीष्यसस्य प्रधानमन्त्री प्रविन्द कुमार जुगनोयः, श्रीलङ्कायाः राष्ट्रपतिः रनिल विक्रमसिङ्गे, बङ्गलादेशस्य प्रधानमन्त्री षेख् हसीना, नेपालस्य प्रधानमन्त्री पुष्पकमल प्रचण्डः, भूटानस्य प्रधानमन्त्री षरिङ्तोब्गे इत्येते सायं सपादसप्तवादनतः राष्ट्रपतिभवने समायोज्यमाने शपथग्रहणकार्यक्रमे साक्षिणः भविष्यन्ति। 

  मोदिना सह भाजपादलस्य वरिष्ठमन्त्रिणः, सहमन्त्रिणः, अन्ये सख्यदलमन्त्रिणश्च शपथं करिष्यन्ति। सत्यवाचनप्रक्रियायै राष्ट्रपतिभवनाङ्कणं पूर्णसज्जं वर्तते।