OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 30, 2024

 लडाके सैनिकवाहनं नदीप्रवाहे मग्नम्। 

पञ्च सैनिकानां वीरमृत्युः। 

ले> काश्मीरे लडाकप्रदेशस्य पूर्वस्यां दिशि चीनस्य नियन्त्रणरेखासमीपे श्योकनद्यां सञ्जाते आकस्मिके शीघ्रजलप्रवाहे ५ सैनिकाः वीरमृत्युं प्रापुः। सैनिकेषु  'टाङ्क्'नामकं यानेन  नद्याः तीरान्तरं प्राप्तुं प्रयत्नं कृतवत्सु अप्रतीक्षिते जलप्रवाहे निपतिताः। 

  सिन्धुनद्याः पोषकनदी भवति श्योका। हिमानां द्रवणेन अप्रतीक्षितजलप्रवाहस्य सम्भावना विद्यते। जलवितानस्य औन्नत्यात् रक्षाप्रवर्तनं विफलमभवत्। 

  दौलत् बेग् ओल्डि सैनिकपत्तनस्य ५२ आर्मेड् विभागे प्रवर्तमानाः सैनिकाः एव दुर्घटनायां निपतिताः। मृत्युमुपगतेषु एकः जे सि ओ पदस्थः  इतरे चत्वारः भटाः च आसन् ।