OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 13, 2024

 पादकन्दुकपरिशीलकः टि के चात्तुण्णिः दिवंगतः। 

तृश्शिवपेरूर्> भारतस्य भूतपूर्वः पादकन्दुकक्रीडकः राष्ट्रस्य सर्वश्रेष्ठपादकन्दुकपरिशीलकेषु अन्यतमः टि के चात्तुण्णिवर्यः [७९] दिवंगतः। १९४५ जनुवरि २५ तमे दिनाङ्के केरले चालक्कुटि प्रदेशे लब्धजन्मा अयं पादकन्दुकक्रीडकः, परिशीलकः इत्यादिषु मण्डलेषु  अर्धशतकाधिककालं यावत् सक्रियः वर्तते स्म। 

  भारतसेनायाः ई एम् ई सेक्कन्दराबाद् संघेनैव चात्तुण्णिवर्यस्य औद्योगिकपादकन्दुकक्रीडाकाण्डस्य प्रारम्भः। ततः वास्को गोवा,ओर्के मिल्स् बोम्बे, सर्वीसस् दलेभ्यः  गोवा, महाराष्ट्रं, केरलम् इत्येतेषां राज्यानां संघेभ्यश्च सः पादत्रं व्यधरच्च। नेहरु चषकलाभे तस्य भागभागित्वम्  अविस्मरणीयं आसीत्। 

  १९७९ तमे केरलदलस्य परिशीलकोSभवत्। अनन्तरं एम् आर् एफ् गोवा, साल्गोकर्, मोहन्बगान्, के एस् ई बी, चर्चिल् गोवा, एफ् सि कोच्चिन् इत्यादीनां बहूनां  क्रीडासमाजानां [Club] परिशीलककञ्चुकमपि धृत्वा तान् विजयपीठमारोहयत्। चात्तुण्णिवर्यस्य निर्याणे विविधक्षेत्रीयाः प्रमुखाः अन्त्याञ्जलिं  समर्पितवन्तः।