OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 21, 2024

 उत्तरभारते ग्रीष्मकालः कठिनकठोरः। 

उष्णतरङ्गे ११४ जीवहानिः। 

नवदिल्ली> अस्य वर्षस्य ग्रीष्मकालः उत्तरभारते कठिनः कठोरश्च वर्तते। बहुषु राज्येषु उष्णतरङ्गस्य भीषायां जनाः दुरितमनुभवन्ति। अस्मिन् काले उष्णतरङ्गस्य काठिन्येन ११४ जनाः मृत्युमुपगताः। ४१,००० जनाः स्वास्थ्यसमस्यामनुभवन्ति। मार्च् प्रथमदिनाङ्कतः जूण् १८ तम दिनाङ्कपर्यन्तं लब्धं वृत्तान्तमनुसृत्य केन्द्रस्वास्थ्यमन्त्रालयेन बहिर्नीता गणना एषा। 

  गतदिनद्वये दिल्ल्यां ३४ जनाः उष्णतरङ्गेण मृताः। राजस्थानं, हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः इत्यादिषु राज्येष्वपि उष्णतरङ्गदुरितमनुवर्तते। 

  प्रत्युत, कठिनवर्षाभिः उत्तरपूर्वीयराज्येषु प्रलयभीषा वर्तते।