OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 16, 2024

 संस्कृतपण्डिताय डो के जि पौलोस् वर्याय भाषासम्मान पुरस्कारः।

डा. के जि पौलोस्
  नवदिल्ली> केन्द्रसाहित्य अकादम्या दीयमानाय २०२३ तमस्य वर्षस्य 'भाषासम्मान' पुरस्काराय दक्षिणभारतक्षेत्रे प्रशस्तः संस्कृतपण्डितः केरलीयः डो. के जि पौलोस् वर्यः चितः। उत्तरभारतीयक्षेत्रे २०२१ तमस्य  वर्षस्य पुरस्काराय हिन्दिसाहित्यनिरूपकः डो. पुरुषोत्तम-अगर्वालः चितः। २०२३ तमस्य  वर्षस्य पुरस्काराय पञ्चाबि साहित्यकारः प्रोफेसर अवतारसिंहः अर्हः भवति। 

  तृप्पूणित्तुरा संस्कृतकलालये अध्यापकः, परं तत्रैव कलालयस्य प्राध्यापकपदम् अलङ्कृतवान् पौलोस् वर्यः कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य 'रजिस्ट्रार्' इति पदमलंकृतवान्। तदन्तरं कलामण्डलं मानितविश्वविद्यालयस्य  प्रथम कुलपतिरूपेण च तस्य वैभवं प्राकटयत्। उपत्रिंशत् ग्रन्थानां कर्ता सः ५० ग्रन्थानां प्रकाशकश्च भवति।