OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 25, 2024

 आस्ट्रेलियां पराजित्य भारतम् उपान्त्यचक्रं प्राविशत्। 

सेन्ट् लूसिया> टि - २० विश्वचषकक्रिकट् स्पर्धा श्रृङ्खलायाः 'सूपर् ८' श्रेण्यां भारतम् आस्ट्रेलियां २४ धावनाङ्कैः पराजित्य उपान्त्यचक्रं प्राविशत्। उपान्त्यचक्रे गुरुवासरे इङ्लाण्ट् भारतस्य प्रतियोगी भविष्यति। 

  प्रथमं कन्दुकताडनं कृतवता भारतेन पञ्च ताडकानां विनष्टे २०५ धावनाङ्काः सम्पादिताः। रोहित शर्मणः उज्वलं कन्दुकताडनमासीत् [४१ कन्दुकैः ९२ धावनाङ्काः] भारतस्य तादृशधावनाङ्कोपलब्धेः कारणम्। श्रेष्ठक्रीडकपदमपि रोहितशर्मणे लब्धम्। प्रतिक्रियाताडने आस्ट्रेलिया सप्त क्रीडकानां विनष्टे केवलं १८१ धावनाङ्कान् उपलभ्य पराभवं प्राप।