आणवायुधप्राप्त्यर्थं न यतते - इरानप्रधानमन्त्री।
मसूद पेसेष्कियानः।
नव दिल्ली> इरानेन आणवायुधं सम्पादयितुं प्रयत्नं न क्रियते, स्वकीया आणवाभियोजना अन्ताराष्ट्रनियमानुसारेणैव प्रवर्तते इति इरानस्य राष्ट्रपतिः मसूद पेसष्कियानः अवदत्। दिल्ल्याम् 'इन्डिया टुडे' नामकाय माध्यमाय दत्ते अभिमुखे भाषमाणः आसीत् सः। अन्ताराष्ट्रियस्तरे अङ्गीकृताः आणवनिरायुधीकरणव्यवस्थाः अनुसृत्य चर्चा एव राष्ट्रेण अभिकाम्यते इति च तेनोक्तम्।
"अस्माभिः इतःपर्यन्तं युद्धं नारब्धम्। स्वयं प्रतिरोध एव कृतः। राष्ट्रभीकरवाद एव अमेरिकया इस्रयेलेन च विधत्ते।" पेसेष्कियानः उक्तवान्।