OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 13, 2026

 प्रतिरोधक्षमता, नूतनीकरणं,सहयोगः, सुस्थिरता।

स्तम्भचतुष्टयम् आधारीकृत्य 'ब्रिक्स्' समूहस्य प्रवर्तनाभियोजना।


नवदिल्ली> भारतस्य अध्यक्षतायां सहयोग-ऐकरूप्यप्रवर्तनेभ्यः अधिकक्षमतां विनियुज्यमानं प्रवर्तनक्रमं सज्जीकृत्य 'ब्रिक्स्'सदस्यराषिट्राणाम् १८तमं सम्मेलनं नवदिल्ल्यां भारतमण्डपे समारब्धम्। राष्ट्ररक्षा, नूतनीकरणं, सदस्यराष्ट्राणां सहयोगः, राष्ट्राभिवृद्धये उपयुज्यमानेषु विभिन्नविषयेषु सुस्थितिः इत्येषु चतुर्षु स्तम्भेषु आधारितानि बहूनि संविधानानि नूतनप्रवर्तमाभियोजनाश्च  सदस्यराष्ट्रनेतारः रूपीकृतवन्तः। 

  प्रथमस्तम्भे - राष्ट्रसुरक्षानामके - कृषि-प्रकृतिदुरन्तनिवारण-स्वास्थ्य-उन्मादकद्रव्य-पर्यावरण-गमनागमन-व्यापारमण्डलेभ्यः प्राधान्यं दत्तम्। नूतनीकरणमिति द्वितीयस्तम्भे कृष्यादिषु विविधक्षेत्रेषु डिजिटल प्रौद्योगिकीयविद्यानां सक्षममुपयोगः विधास्यते। 

  तृतीयस्तम्भे सहयोगाख्ये सदस्यराष्ट्राणां मिथः सम्बन्धस्य शक्तीकरणं सङ्कल्पते। सुस्थितिरिति चतुर्थस्तम्भे हितकरं  पर्यावरणसंरक्षणं,  ऋतु विज्ञानीयप्रवर्तनानि, हरितोर्जः, हितकरी जीवनशैली च विषयरूपेण अन्तर्भवन्ति।