OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 20, 2026

 आणवयुद्धं विरुध्य षि-ट्रम्प-पुतिनत्रयस्य उद्घोषणम्।

• युक्रेन-इरानयुद्धमधिकृत्य न परामर्शः।

• यू एन् संस्थां नूतनीकरिष्यति। 

त्रिराष्ट्रनायकानां संयुक्तमेलनम्।

षन्षेन् (चीनः)> विश्वस्मिन् बृहच्छक्तयः इति मन्यमानानां त्रीणां राष्ट्राणाम् अधिपतीनां शिखरसम्मेलने आणवयुद्धं विरुध्य 'शान्त्युद्घोषणम्'। चीन-रष्या-यू एस् राष्ट्राणां राष्ट्रपतयः यथाक्रमं षी चिन् पिङः, व्लादिमिर् पुतिनः, डोनाल्ड ट्रम्पः च चीनराष्ट्रस्य 'टेक् नगर'मिति विशेष्यमाणे षन्षेननगरे समायोजिते उच्चशिखरसम्मेलने आसीदिदं शान्त्युद्घोषणम्। तेषां अङ्गीकारेण प्रकाशिते ह्रस्वप्रस्तावे, किन्तु, युक्रेन-इरानयुद्धं न परामृष्टम्। 

  संयुक्तराष्ट्रसंघटनस्य नूतनीकरणाय यतिष्यते, तैलेन्धनोत्पादनं वर्धापयिष्यति, राष्ट्रनायकानां नियमपरिरक्षा आवश्यकी इति च संयुक्तप्रस्तावे प्रोच्यते। 

  एष्या-पसफिक आर्थिकसहयोगोच्चशिखरमध्ये आसीत् त्रीणां राष्ट्रनायकानां मेलनं सम्पन्नम्। एकहोराधिकं एतेषां गुप्तचर्चा अभवत्।  ततः पूर्वं ट्रम्प-पुतिनयोः, षि-ट्रम्पयोः पृथक् चर्चा अपि सम्पन्ना आसीत्।