राजनैतिक प्रसारणाय रोधनमुद्दिश्यते मुखपुस्तिकया।
वाषिङ्टण्> कापिट्टोल् आन्दोलनस्य पृष्टभूमौ राजनैतिक-वैषयिकचर्चा-नियन्त्रणाय मुखपुस्तिकया निश्चितः। राजनैतिक-गणानाम् आमन्त्रणानि ग्राहकेभ्यः न प्रदास्यते इति मार्क् सक्कर् बर्गेण उक्तम्। ग्राहकेभ्यः लभ्यमानेषु वार्तांशेषु राजनैतिकांशः न्यूनं करिष्यति इति तेन उक्तम्।OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, January 28, 2021
Wednesday, January 27, 2021
मोडेण कोविड् वाक्सिन् भारतम् आनेतुं टाट्टा ग्रूप् प्रयतते।
नवदेहली> मोडेण कोविड् वाक्सिन् भारतम् आनेतुम् अमेरिक्कस्य औषधनिर्माण संस्थया मोडेण इत्याख्यया सह टाट्टा ग्रूप् चर्चा आरब्धा। टाट्टा मेडिक्कल्स् आन्ट् डयग्नोस्टिक्स् सि एस् आर् इत्यस्य सहकारेण भवति भारते औषधस्य परीक्षणम्। गतसंवत्सरे डिसंबर् मासे अमेरिक्कराष्ट्रे अस्मिन् मासे प्रथम सप्ताहे यूरोप्मध्ये च वाक्सिनस्य अङ्गीकारं सिध्यति स्म। -७० डिग्रि ऊष्णात् न्यूनं संरक्षणीयः फैसर् वाक्सिनापेक्षया समान्य-शीतीकरणी उपयुज्य मोडोण वाक्सिनं संरक्षितुं शक्यते इति अस्य औषधस्य औत्कृष्ट्यम्।
संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहेन संस्कृत स्तोत्रप्रतियोगिताया: आयोजनं कृतम्।
वार्ताहर: - दीपकः शास्त्री
जयपुरम्> संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले "संस्कृतं जनभाषा भवेत्" इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य बालानां कृते संस्कृतस्य प्रतियोगिताया: आयोजनं करोति। अस्मिन् वर्षे समूहेन "संस्कृत स्तोत्रप्रतियोगितायाः" आयोजनं कृतम्। अस्यां प्रतियोगितायां सम्पूर्ण भारतदेशात् ३० बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतस्तोत्रं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। प्रतियोगितायां द्वयो: वर्गयो: निर्माणं अभवत्। अस्या: परिणाम: जनवरीमासस्य षड्विंशति: दिनाङ्के घोषित:। अस्यां प्रतियोगितायां प्रथमवर्गे (३-१० वर्षम्) प्रथमस्थानं गुजरातत: बालिका जैनी प्रतीक, द्वितीयस्थानं गुजरातत: बालक: व्यासदेवर्षि:, तृतीयस्थानं च गुजरातत: बालिका व्यास प्रियांशी च प्राप्तवन्त:। एवं च द्वितीयवर्गे (११-१८ वर्षम्) प्रथमस्थानं गुजरातत: बालिका व्यास रुद्राक्षी, द्वितीयस्थानं मध्यप्रदेशत: बालक: आशीष: शुक्ला, तृतीयस्थानं च मध्यप्रदेशत: बालक: चंचल: मिश्रा च प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: प्राप्तवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि लब्स्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजकरूपेण रा. ई. का. कोटद्वारे सहायक-संस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदयपक्षत: प्रथमद्वितीयतृतीयविजेतृभ्य:(द्वयो: वर्गयो:) क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगितायां मीडियापार्टनर इति रूपेण सूरततः दैनिकप्रकाशितं संस्कृतसमाचारपत्रं "विश्वस्य वृत्तान्त:" अस्ति। प्रतियोगिताया: आयोजक: समूहस्य सञ्चालक: दीपकः शास्त्री अस्ति।Tuesday, January 26, 2021
देहल्ली सङ्घर्षः - गृहमन्त्रिणा त्वरितमेलनाय आमन्त्रितम्।
नवदेहली> नवदिल्यां संघर्षं प्रतिरोद्घुं केन्द्रसर्वकारः कठिन-प्रक्रमाय पर्यालोच्यते। दिल्लीस्थां परिवर्तितशन्त्यवस्थाम् अधिकृत्य प्रौढोद्योगस्थाभ्यां सह गृहमन्त्री अमितशाहः चर्चां कृतवान्। सङ्घर्षः मर्यादायाः सीमाम् उल्लङ्घितः इत्यनेन अन्तर्जालसेवा निराकृता इति गृह-मन्त्रालयेनोक्तम्। टिक्रि, सिंगु, गासिपुरम्, मुकर्बचौक्, नन्ग्लोय् प्रदेशेषु आसीत् अन्तर्जालस्य निरासनम्। प्रदेशे अर्धसैनिक-विभागान् विन्यस्तुं निश्चितः अस्ति।
भारत-गणतन्त्रदिवसः!
अस्माकं भारतदेशे प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्के गणतन्त्रदिवसः समायोज्यते। दिवसोऽयं राष्ट्रियपर्वत्वेनापि परिपाल्यते। प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्कः एवं किञ्चन दिनं वर्तते यस्मिन् दिने प्रत्येकं भारतीयानां मनसि देशभक्तिः जागर्ति मातृभूमिं च प्रति अपारस्नेहः उत्पद्यते। एवमेव अनेकाः महत्त्वपूर्णाः स्मृतयः सन्ति याः तेन पर्वणा सह योजिताः भवन्ति। १९५० तमे वर्षे जनवरीमासस्य षड्विंशतिदिनाङ्के भारतदेशस्य
रचयिता-
प्रदीपकुमारनाथः असमप्रदेशः।
Monday, January 25, 2021
उल्लङ्ख्य निवेशनाय चीनेन कृतः श्रमः भारतेन पराजितः। २० चीनस्य सैनिकाः क्षताः।
नवदिल्ली> भारत-चीनयोः सैनिकाः सिक्किमस्य नकुलप्रदेशे युद्धम् अभवत्। दिनत्रयात् पूर्वम् आसीत् घटना। २० चीनसैनिकाः ४ भारतसैनिकाः च घटनायां क्षताः। चीनस्य निरीक्षक-संघाः नियन्त्रण-रेखाम् उल्लङ्ख्य आगताःइति भवति संघट्टनस्य कारणम्। भारतसैनिकैः चीनसैनिकाः परं चूर्णायिताः। प्रदेशे भारतेन सुरक्षा शक्तीकृता। समुद्रतलात् १९००० पादोन्नत्यां भवति 'नकुल'प्रदेशः।
सम्यक् सङ्घटनस्य संस्कृतमेधा पुरस्कारेण पुरस्कृतः बलदेवानन्दसागरः।
बेंगळूरु> अस्ति कर्णाटके बेंगळूरु-नगरे 'सम्यक्'-नाम्नी संस्कृत-शिक्षकाणां संस्था। एषा प्रतिवर्षं संस्कृतस्य मेधाविच्छात्रान् पुरस्करोति, संस्कृतोत्सवम् आयोजयति, अन्यतमं कञ्चन संस्कृत-सेवाव्रतिनञ्च कर्णाटकशैल्या हूवीन्हार-पगडीति पुष्पमाला-शिरोष्णाभ्यां सह एकादशसहस्ररूप्यकाणां प्रदानपुरस्सरं सम्मानयति। अनेके प्रतिभाशालिन्यः बालिकाः बालाश्चात्र प्रोत्साहिताः, संस्कृतसेवकः बलदेवानन्दसागरश्च सम्मानितः।वर्धतां समेधताञ्च शिक्षकाणां समुत्साहः।
Sunday, January 24, 2021
संस्कृतशिक्षकाणाम् अन्तर्जालीयमुपवेशनम्
उत्तराखण्डस्य शासकीयेषु शासनेतरेषु च विद्यालयेषु कार्यरतानां संस्कृतविषयाध्यापकाणाम् अन्तरजालीयम् उपवेशने रविवासरे आयोजितम्। अस्मिन् उपवेशने प्रदेशस्य द्वितीयराजभाषात्वेन घोषिते सत्यपि विद्यालयेषु शिक्षकाणां नैयून्यं सविशेषं परिचर्चितम्। विषयेस्मिन् शासकीयौदार्यम् अपाकर्तुं सम्मर्षाः समागताः।
राज्ये संस्कृतविषयस्य प्रवक्तृणां सहायकशिक्षकाणां चोपवेशने माध्यमिक-विद्यालयेषु उच्चतरमाध्यमिक-विद्यालयेषु च संस्कृतशिक्षकाणां सृजितपदेषु अधिकांशपदेषु रिक्तता कारणेन छात्रेभ्यः गुणवत्तापूर्ण-शिक्षा नैव प्रदीयते। अत्रावसरे शिक्षकैः प्रोक्तं यत् विद्यालयेषु अन्यविषयाणां शिक्षकाः वैकल्पिक-व्यवस्थाम् अनुसरन् संस्कृतं पाठयितुं बाध्याः सन्ति। निगदितं च यत् प्रशासनेन उत्तराखण्डस्य द्वितीया राज्यभाषा तु प्रतिपादिता परं धरातले तदैव मूर्तत्वं गच्छति यदा अस्याः संवर्धनाय समुन्नयनाय परिवर्धनाय छात्रहिताय गुणवत्तापूर्णशिक्षायै च नीतिपूर्णा कार्ययोजना निर्मास्यते ।
उपवेशने द्वितीयराजभाषां समुन्नेतुं नैके सम्मर्दाः समुपस्थापिताः। माध्यमिक-स्तरे अनिवार्यविषयत्वेन संस्कृतशिक्षणम् उच्चतरमाध्यमिक-स्तरे च द्वितीयभाषात्वेन संस्कृतशिक्षणम् संस्कृतविषयस्य सहायकशिक्षकाणां प्रवक्तृणां च रिक्तपदेषु नियुक्तिः शासकीय-साहाय्य-प्राप्त-विद्यालयेषु शासनेतर-विद्यालयेषु च संस्कृत-शिक्षकाणां पदसृजनम् अथ च स्थायि-नियुक्तिं यावत् अतिथि-शिक्षकाणां नियुक्तिः इत्येतादृशाः विषयाः प्रमुखाः अवर्तन्त।
कोविड् वाक्सिनवितरणं - भारताय कृतज्ञताम् समर्प्य विश्वस्वास्थ्यसंघटनम्।
जनीवा> विश्वस्मै कोविड्प्रतिरोधप्रवर्तनेषु भारतस्य योगदानं पुरस्कृत्य राष्ट्राय प्रधानमन्त्रिणे च विश्वस्वास्थ्यसंघटनस्य अध्यक्षः ट्रेट्रोस् अथनों गब्रियेसुसः कृतज्ञतां व्याहरत्। भारते वाक्सिनवितरणानन्तरं 'प्रातिवेशिकाः प्रथमम्' इति राष्ट्रस्य नीतिक्रममनुसृत्य भारते निर्मितं कोविड्वाक्सिनं श्रीलङ्का ,भूट्टानं, बङ्गलादेशः, नेप्पालं, म्यान्मरं, सीषेल्स्, अफ्गानिस्थानं , मौरीष्यस् इत्येतेभ्यः राष्ट्रेभ्यः निश्शुल्केन वितीरतुं निश्चयः कृतः आसीत्।
भूट्टानाय सार्धशतं मात्राः मालिद्वीपाय लक्षैकं मात्राः, बङ्गलादेशाय २० लक्षं, नेप्पालाय १० लक्षं , म्यान्मराय १ लक्षं, मौरीष्यसे १ लक्षं च मात्राः गतदिनेषु नीताः। अस्मिन्ननवसरे आसीत् अथनोंवर्यस्य कृतज्ञता अभिनन्दनं च ट्विटर्द्वारा प्रकाशितम्।
Saturday, January 23, 2021
९२ राष्ट्रान् प्रति भारतस्य कोविड् प्रतिरोधौषधः।
नव दिल्ली> भरतात् ९२ राष्ट्राणि कोविड् प्रतिरोधौषधं स्वीकुर्वन्ति। वाक्सिनस्य वितरणं समारभ्य कतिपय दिनाभ्यन्तरे भारतस्य वाक्सि नस्य निमाणक्षमतायाः ख्यातिः राष्ट्रान्तरं व्याप्यते इति वैदिशिक-वार्तामाध्यमैः आवेद्यते। स्वस्य आवश्यकताम् अतिरिच्य अधिकम् औषधं निर्मातुं सक्षमं सज्जं च भवति भारतम् इति आवेदने दृश्यते। बुधवासरादारभ्य बग्लादेश - नेपाल -भूट्टान्-मालद्वीप्राष्ट्रेभ्यः ३२ लक्षं मात्रात्मकं वाक्सिनः भारतेन प्रदत्तः अस्ति।अष्टानां विषयाणां टैटपरीक्षायाः परिणामविषये सूचना
Friday, January 22, 2021
पुणे 'सिरं' संस्थायाः अग्निबाधया पञ्चानां मृत्युः अभवत्।
Thursday, January 21, 2021
अमेरिक्कायां बैडन्युगः।
जो बैडनः राष्ट्रपतिरूपेण शपथग्रहणं कृतवान्।
वाषिङ्टण्> अमेरिक्कायाः ४६तमराष्ट्रपतिरूपेण ७८वयस्कः जोसफ् आर् बैडनः शपथग्रहणं कृतवान्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः जोण् रोबर्ट्सः शपथवाचनं कारितवान्।उपराष्ट्रपतिरूपेण कमलाहारिसः शपथग्रहणं कृतवती। यू एस् राष्ट्रस्य चरित्रे प्रप्रथमः वनिताउपराष्ट्रपतिः भवति ५६वयस्का तथा च भारतीयवंशजा कमलाहारिसः।
Wednesday, January 20, 2021
अमेरिक्कस्य ४६ तमः राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति।
वाषिङ्टण्> निर्वाचनसमस्यां परिहृत्य अमेरिक्कस्य षट्चत्वारिंशतमः (४६) राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति। शपथग्रहणाय जो बैडनः बाषिङ्टण् प्राप्तवान् अस्ति। कोविड् रोगेण हतानां यू एस् नागरिकाणां स्मृतौ एषः आदराञ्जलिं समर्पितवान्। शपथ-ग्रहणप्रक्रमाय अतीव-सुरक्षा वाषिङ्टण् प्रदेशे सर्वत्र आयोजिता वर्तते। वाषिङ्टणे समागतः बैडणः लिङ्गण् स्मृतिमण्डपं प्रथमं सन्दर्शितवान्। जो बैडनस्य शपथग्रहण समारोहे पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः भागं न स्वीकुर्यात्॥
अरुणाचलप्रदेशे चीनेन ग्रामः निर्मितः इति आवेदनम्; निरीक्ष्यते भारतेन।
नवदिल्ली> अरुणाचलप्रदेशे चीनेन निर्माण-प्रवर्तनानि कृतानि इत्यावेदने भारतस्य विदेश मन्त्रालयेन अभिमतं प्रकाशितम्। भारतस्य सुरक्षासंबन्धघटनया सर्वं निरीक्ष्यते अनुदिनम् इति। विषयेऽस्मिन् प्रक्रमाः स्वीकरिष्यन्ते इति च मन्त्रालयेन उक्तम्। अरुणाचलप्रदेशे भारतस्य भूप्रदेशान् संगृह्य चीनेन १०१ गृहाणि निर्मितानि इति आसीत् ए न् डि टि वि माध्यमस्य आवेदनम्।
आस्ट्रेलियायां भारतस्य विजयकाहलं - भारताय निकषक्रिक्कट्स्पर्धापरम्परा।
ब्रिस्बेन> भारतीयक्रिक्कट्क्रीडासंघस्य युद्धसमानप्रतियोगितावीर्याय समर्पणीया इयं विजयपरिसमाप्तिः। ह्यः समाप्ते भारतास्ट्रेलिययोः चतुर्थे निकषद्वन्द्वे भारतस्य ऐतिहासिकविजयः।
गाबा क्रीडाङ्कणे आस्ट्रेलियया उन्नीतः ३२८ धावननाङ्कानां विजयलक्ष्यः१८ कन्दुकेषु अवशिष्टेषु ७ क्रीडकानां विनष्टे भारतेन प्राप्तः। गाबायां ३२ संवत्सरात्परमेव आस्ट्रेलियायाः पराजयः।
अत्युज्वलेन अर्धशतकेन [८९*] धावनाङ्कानां विजयलक्ष्यं विजयतीरं आनीतवान्। विक्कट्सुरक्षकः ऋषभपन्तः एव श्रेष्ठक्रीडकः। ऋषभेन सह क्रीडाप्रारम्भकः शुभमनगिलः , चेतेश्वरपूजारश्च भारतस्य विजये निर्णायकं भागभागित्वं गृहीतवन्तौ।
Tuesday, January 19, 2021
अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।
जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्।
सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।
बैडनं प्रति आक्रमणमाशङ्कते।
वाषिङ्टण्> नियुक्तं यू एस् राष्ट्रपतिं जो बैडनं विरुद्ध्य अङ्गरक्षकेभ्यः एव आक्रमणं भवेदिति आशङ्का वर्तत इति राष्ट्रपतेः सुरक्षाधिकारिणः। समीपकाले नगरसुरक्षायै नियुक्तेषु अधिकारिषु नियुक्तानां अधिकारिणां कतिपयेभ्यः सुरक्षाभीः अजायत इत्यभ्यूहः अस्ति।
सुरक्षाभीषा वर्तमाना इति सैनिककार्यदर्शिना मक् कार्ति इत्यनेनापि दृढीकृतम्। ईदृशप्रवर्तनेषु भागभागं वहन्तं प्रत्यभिज्ञातुं सर्वथा यतिष्यते इति तेनोक्तम्।











