OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, January 9, 2025

 ओस्कार् पुरस्कारपट्टिकायां 

५ भारतीयचलच्चित्राणि। 

नवदिल्ली> श्रेष्ठचलच्चित्रेभ्यः दीयमानाय  पुरस्काराय परिगणयितुं ५ भारतीयचलच्चित्राणि प्रथमपरिगणनावल्यां स्थानमलभन्त। 'आटुजीवितम्' इति मलयालचलच्चित्रं, 'कङ्कुव' [तमिल्], 'पुतुल्' [बंगाली], Girls will be girls, All will imagin as light इत्येतानि चित्राणि आवल्यामन्तर्भवन्ति। २०७ चलच्चित्राणि प्रथमपरिगणना आवल्यां सन्ति।

 प्रवासी भारतीय दिवसः सम्मेलनमद्य आरभ्यते। 

भुवनेश्वरं> 'प्रवासी भारतीय दिवसः' इति कृतनामधेयं प्रवासिवर्याणां सम्मेलनं भुवनेश्वरे [ओडीशराज्ये] गुरुवासरे शुक्रवासरे च आयोज्यते। अद्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनस्य उद्घाटनं करिष्यति। मुख्यातिथिः 'ट्रिनिडाड् आन्ड्  टुबागो' इत्यस्य अध्यक्षः क्रिस्टिन् कार्लः विदूरदृश्यमाध्यमद्वारा मेलनमभिमुखीकरिष्यति। 

  'विकसितभारताय प्रवासिनां योगदानम्' इत्येतत् सम्मेनस्यास्य विषयः। पञ्चाशदधिकेभ्यः राष्ट्रेभ्यः महान्तः उद्योगप्रमुखाः, संरम्भकाः, आर्थिककुशलाः च भागं करिष्यन्ति। शुक्रवासरे राष्ट्रपतिः द्रौपदी मुर्मू पुरस्कारवितरणं करिष्यति।

Wednesday, January 8, 2025

 वि नारायणः ऐ एस् आर् ओ अध्यक्षः भविष्यति। 


नवदिल्ली> डो वि नारायणः ऐ एस् आर् ओ संस्थायाः अध्यक्षः भविष्यति। इदानीं सः अनन्तपुर्यां वलियमला Liquid Propulsion Systems Center इत्यस्य निदेशकः भवति।  बहिराकाशविभागस्य  कार्यकर्ता, बहिराकाशायोगस्य अध्यक्षः इति स्थानद्वयमपि सः वक्ष्यति। 

  नागर्कोविल् प्रदेशीयः वि नारायणः वर्तमानीनः इस्रो अध्यक्षः एस् सोमनाथस्य सेवानिवृत्तदिने जनुवरि १४ तमे दिनाङ्के पदं स्वीकरिष्यति।

 टिबटे भूकम्पः। 

१२६ मरणानि।

बीजिंग> टिबटे भारतसीमायाः समीपं वर्तमाने विशुद्धनगरे 'षिगासे' नामके कुजवासरे प्रभाते दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। १८८ जनाः आहताः। 

  भूकम्पमापिन्यां ६. ८ अङ्कितस्यास्य प्रकम्पनानि नेपालं, भूटानं, उत्तरभारतस्य केषुचनप्रदेशेषु च अभवन्। डिंग्री प्रदेशस्थात् सोगो नगरात् १० कि मी अधः अस्ति प्रभवकेन्द्रमिति चीनस्य भूकम्पनिरीक्षणकेन्द्रात् निगदितम्।

 दिल्ली विधानसभानिर्वाचनं फेब्रुवरि ५ तमे दिनाङ्के।

द्वे उपनिर्वाचने च प्रख्यापिते। 

मुख्यनिर्वाचनायोगः राजीवकुमारः निर्वाचनं प्रख्यापयति। 

नवदिल्ली> दिल्ली विधानसभायाः ७० मण्डलेषु सामाजिकनिर्वाचनं प्रख्यापितम्। फेब्रुवरि ५ तमे दिनाङ्के एकेनैव सोपानेन मतदानं, अष्टमे दिनाङ्के मतगणना च भविष्यति। मुख्यनिर्वाचनायोगेन राजीवकुमारेण आकारिते वार्ताहरसम्मेलने आसीदिदं प्रख्यापनम्। 

  तद्दिने एव मण्डलद्वये विधानसभा उपनिर्वाचनं च विधास्यति। उत्तरप्रदेशस्य मिल्किपुरमण्डलं यत्र अयोध्यामन्दिरमपि अन्तर्भवति, तमिलनाटस्थे ईरोड् ईस्ट् मण्डले च उपनिर्वाचनं भविष्यति।

  दिल्लीविधानसभानिर्वाचनवेदिकायां प्रशासनं संस्थापयितुं आम् आद्मी दलं, परिगृहीतुं  भाजपा दलं च कठिनप्रयत्नं कुर्वते स्तः।

Tuesday, January 7, 2025

संस्कृतादेव बह्वीनां भाषाणां उत्पत्तिर्जाता - वाचस्पतिमिश्रः

    संस्कृतभाषा सर्वभाषाणां जननी इति मन्यते । एषा भाषा न केवलं भारतस्य सांस्कृतिकनिक्षेपः, अपितु तस्याः शब्दाः, व्याकरणं, संरचना च अनेकासु भाषासु प्रभावं कृतवती अस्ति। अद्यापि हिन्दी-मराठी- गुजराती-तमिल- तेलुगु, आङ्ग्ल- जर्मन -प्रभृतिषु भाषासु संस्कृतशब्दाः दृश्यन्ते ।

   संस्कृतस्य प्रभावः अस्माकं दैनन्दिनकार्यक्रमे अपि स्पष्टतया दृश्यते। सप्ताहस्य

 छत्तीसगढे मावोवादिनः आक्रमणम्।

अष्ट सैनिकानां वीरमृत्युः। 

बीजापुरं‌> छत्तीसगढे बीजापुरं‌ जनपदे मावोवादिभिः  'ऐ ई डि' नामकस्फोटकवस्तुमुपयुज्य कृते आक्रमणे अष्ट सैनिकाः  वीरमृत्युं प्रापुः। वाहनचालकः अपि हतः। वर्षद्वयाभ्यन्तरे सुरक्षासेनां लक्ष्यीकृत्य विधत्तं महत्तममाक्रमणं भवत्येतत्। 

  ६० - ७० किलोमितम् 'ऐ ई डि' स्फोटकमुपयुज्य कृते आक्रमणे वाहनं पूर्णतया भग्नम्। सर्वकार आरक्षकदलस्य डि आर् जि नामक सेनाविभागस्य सैनिकाः एव मृत्युं प्राप्तवन्तः।

 जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। 


ओट्टाव> राष्ट्रे स्वकीये राजनैतिकदले च अनभिमतः कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। शासनदलस्य 'लिबरल् पार्टी' इत्यस्य नेतृस्थानमपि सः त्यक्तवान्। परन्तु नूतनाधिकारिणः चयनं यावत् सः द्वयेSपि अधिकारस्थाने अनुवर्तिष्यते।

  २०१३ तमे वर्षे लिबरल् पार्टेः अध्यक्षस्थानं २०१५तमे प्रधानमन्त्रिस्थानं च प्राप्तवान् ट्रूडो आरम्भकाले जनप्रियनेता आसीत्। किन्तु अधिनिवेशविषयमधिकृत्य समीपकाले उद्भूताः वाससमस्याः अन्ये प्रादेशिकविषयाश्च तमनभिमतमकुर्वन्। खलिस्थानीयभीकरः हर्दीप सिंह निज्जरः इत्यस्य हत्याप्रकरणे अपि भारतेन सह कानडायाः सम्बन्ध अपि   अभद्रः वर्तते।

Monday, January 6, 2025

 रामनगरे संस्कृतभारती उत्तराञ्चलम्  प्रान्तस्य प्रान्तसम्मेलनं प्रारब्धम्।

   संस्कृतभारती उत्तराञ्चलस्य द्विदिनात्मकं प्रान्तीयसम्मेलनं रामनगरस्य खत्रीसभाभवने आरब्धम्।   कार्यक्रमस्य आरम्भ: दीपप्रज्ज्वलेन मुख्यातिथि: रूपेण समागताः दीवानसिंह बिष्टः (विधायकः) रामनगरम् महोदयेन कृतम्।

अवसरेsस्मिन्  प्रान्तमन्त्री श्रीगिरीशतिवारी, क्षेत्रसंगठनमंत्री देवेन्द्र पण्ड्या,प्रान्तगणसदस्या श्रीमती जानकी त्रिपाठी,  इत्येभिः सहिताः अनेके विद्वांसः उपस्थिताः आसन् ।कार्यक्रमस्य संचालनं डॉ. वेदव्रतेन

 क्रीडनकविपण्यां भारतस्य प्रगतिः। 

बहिर्देशनयने २३९% वर्धनम्; ८४कोटीनां नियोगः।

नवदिल्ली> भारतस्य क्रीडनकोद्योगे महान् पुरोगतिरिति लख्नौ ऐ ऐ एम् संस्थया कृते अनुशीलने स्पष्टीकृतम्। २०१५ तमं संवत्सरमपेक्ष्य क्रीडनकाणां देशान्तरनयने  २०२२-२३ वर्षे २३९%स्य वर्धनमभवदिति गृहोद्योगप्रोत्साहनविभाय कृते अनुशीलने दृश्यते। विदेशादानयनं तु ५३% आकुञ्चितम्। 

  २०२३ तमवर्षस्य गणनानुसारं ९६०० अधिकानि क्रीडनकनिर्माणकेन्द्राणि सन्ति। समीपकाले जर्मन्यां सम्पन्ने अन्ताराष्ट्रियक्रीडनकोत्सवे भारतीयक्रीडनकनिर्मातृभ्यः ८४. ४७ कोटिरूप्यकाणां नियोगः लब्धः।

 चीने वैराणुव्यापनं - आशङ्कायाः आवश्यकता नास्ति।

नवदिल्ली> चीनदेशे व्याप्यमानस्य एछ् एम् पि वि [Human Meta Pneumo Virus] वैराणोः विषये आशङ्का मास्तु इति जनितकमण्डले गवेषकः कोष़िक्कोट् प्रदेशीयः डो विनोद् स्करिया अवदत्। एछ् एम् पि वि नूतनवैराणुः नास्ति। २००१ तमे वर्षे नेतर्लान्टे बालकेषु प्रथमतया एषः वैराणुः अधिगतः। 

  बालकान् वृद्धान् दुर्बलान् च वैराणुरयं गृह्णातीति डो विनोदेनोक्तम्।

Sunday, January 5, 2025

 केशेषु वर्णलिम्पनम् अर्बुदरोगहेतुः भविष्यति इति नूतनाध्ययनफलम्।

   केशेषु वर्णलिम्पनम् अधिकृत्य राष्ट्रिययसंस्थया (National institute) समायोजितस्य अध्ययनस्य फलं भीतिं जनयति। केशस्य वर्णलिम्पनाय (Dye) तथा केशसमीकरणाय उपयुज्यमानानि रासवस्तुयुक्तानि लेपनानि अर्बुदरोगस्य कारणं भविष्यति इत्येव अध्ययनफलम्। पुरुषानपेक्षया स्त्रीषु अर्बुदसंभ्वाव्यता अधिका इत्यपि अध्ययनं सूचयति। अध्ययनानुबन्धतया ४६,७०९ स्त्रीषु निरीक्षणं कृत्वा एव इदम् अध्ययनफलं सम्प्राप्तम्।

 म्यान्मरे ६००० कारागारबन्धिनः विमोचिता‌ः। 

आङ् सान् स्यूची न मोचिता। 

बाङ्कोक्> म्यान्मर देशस्य ७७ तम स्वतन्त्रतावार्षिकस्य अंशतया षट्सहस्राधिके कारागारबन्धिनः  सैनिकप्रशासनेन मोचिताः। 

  किन्तु २०२१ तम वर्षादरभ्य कारागारे बन्धिता म्यान्मरस्य स्वतन्त्रतान्दोलननायिका आङ् सान् स्यूची न मोचिता।

 आणवशास्त्रज्ञः राजगोपाल चिदम्बरं निर्यातः। 

पोख्रानपरीक्षणस्य चालकशक्तिः। 


मुम्बई> भारतस्य आणवशक्तिं रूपीकृतवत्सु प्रमुखः तथा च 'पोख्रान् आणवपरीक्षणस्य' चालकशक्तिरूपेण प्रवर्तितः आणवशास्त्रज्ञः राजगोपाल चिदम्बरं [८९] दिवंगतः। 

  १७ वर्षाणि केन्द्रसर्वकारस्य शास्त्रीयोपदेष्टा , भाभा अटोमिक् गवेषणकेन्द्रस्य निदेशकः, आणवोर्ज आयोगस्य अध्यक्षः इत्यादीनि बहूनि स्थानानि तेन ऊढानि। १९७५ तमे वर्षे पद्मश्री, १९९९ तमे पद्मविभूषणं च तस्मै समर्पितम्।

 उत्तरभारतं अतिशैत्येन कम्पते। 

दुर्घटनाः वर्धन्ते। 

नवदिल्ली> उत्तरभारते शैत्यं तस्य उच्चस्थायिनं प्राप्नोति। दिल्ल्यां १९ विमानानां अवतार्यं लक्ष्यं परिवर्तितम्। चतुश्शतं विमानानि विलम्बितानि। ४५  संख्याकानि निरस्तानि च। ८१ रेल् यानान्यपि विलम्बितानि। 

  राजवीथिषु हिमधूलिवर्षेण पुरोमार्गमदृष्ट्वा यानदुर्घटनाः साधारणाः वर्तन्ते। दिल्ली-मुम्बय् राजमार्गे बस् - ट्रक्यानसंघट्टने एकः मृतः; चत्वारः आहताः। 

  न केवलं दिल्ल्याम् इतरेषु प्रातिवेशिकराज्येषु च अतिशैत्यं हिमधूलिवर्षश्च अनुभूयते। राजस्थानं, हरियानं, उत्तरप्रदेशः इत्यादिराज्येष्वपि अतिशैत्यक्लेशाः सन्ति।

ब्रह्मपुत्रनद्यां चीनस्य जलबन्धनेन भूभ्रमणवेगः 0.06 क्षणं यावत् मन्दं भविष्यति - नासा।

   चीनदेशस्य तिब्बतप्रदेशे ब्रह्मपुत्रनद्यां विश्वस्य सर्वाधिकबृहत्तमं जलबन्धं निर्मास्यति इति चीनस्य प्रस्तावः।  प्रस्तावं प्रति भारतस्य प्रतिक्रिया।

   भारतस्य विदेशकार्यविभागेन उक्तं यत् भारतस्य स्वार्थानां रक्षणं सुनिश्चितं भविष्यति योजना सूक्ष्मतया निरीक्ष्यते च। चीनदेशात् सुस्पष्टतां अपेक्ष्य, नदीजलसम्बन्धिनः अधिकारान् स्मारयित्वा, आवश्यके समये उचितानां कार्याणाम् आदानं भविष्यति, इति अपि भारतेन प्रोक्तम्।  एतत् बन्धं ‘थ्री गॉर्जेस् डॅम’ इत्यस्मात् अपि विशालं भविष्यति। नासायाः गणनानुसारं, इदं बन्धं पृथिव्याः भ्रमणं 0.06 क्षणं यावत् मन्दं करिष्यति इति प्रतिवेदनम् अस्ति। तथा च पर्यावरणस्य लोले हिमालयप्रदेशे तस्य निर्माणं महतीं चिन्तां जनयति।

प्रधानचिन्ताः:

1. पर्यावरणीयप्रभावः - बन्धनिर्माणेन पर्यावरणे महती हानिः सम्भाव्यते।

2. भूविज्ञानदुर्बलता - तद् क्षेत्रं भूचलसम्भावनया उच्चं सन्दिग्धं च अस्ति।

3. नदीप्रवाहे व्यवधानम्- ब्रह्मपुत्रस्य प्रवाहं तथा नदीतटं प्रतिकूलतया प्रभावितुं शक्यते।

4. भारतस्य दुष्प्रभावः - योजनया भारतस्य दशलक्षाधिकजनानाम् अत्यन्तं कठिनं जलसङ्कटं तथा अतिवृष्टिजन्यं महाप्रलयं च सम्भविष्यति इति चिन्ता वर्तते।

Saturday, January 4, 2025

 चीनदेशे वैराणोः प्रसरणे भीतिः न आवश्यकं भारतीय स्वास्थ्य  संस्था।

   चीनदेशे ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रसरणे भारतजनानाम् आशङ्कायाः आवश्यकता नास्ति, इति भारतीयस्वास्थ्यसंस्थया स्वास्थ्यसेवया उक्तम्। केन्द्रसर्वकारस्य गृहमन्त्रालयः स्थितिं यथायथं निरीक्षते इति स्वास्थ्यसेवायाः महानिर्देशकः (डी जी एच् एस्) डॉ० अतुल् जोयलः अवदत्। ह्युमन् मेटाप् न्यूमोनो वैराणोः प्रतिरोधाय औषधानि अद्यापि उपलब्धानि न सन्ति, तथापि सर्वाणि श्वाससम्बन्धिरोगाणि निवारयितुं साधारणनिर्देशाः पालनियाः इति चीनदेशेन विचार्यते। भारतदेशं प्रति काचन आशङ्कायाः आवश्यकता नास्ति इत्यपि तेनोक्तम्।

संस्कृतभारती-उत्तराञ्चलस्य भाषाप्रबोधनवर्गस्य भव्यारम्भः

वार्ताहर:-कुलदीपमैन्दोला।

 उत्तराखण्डस्य नैनीतालजनपदे रामनगरे संस्कृतभारत्याः उत्तराञ्चलप्रान्तस्य सप्तदिनात्मक: आवासीय: भाषाप्रबोधनवर्गः दीपप्रज्वलनेन सरस्वतीवन्दनया च आरम्भः अभवत् । अतिथीनां परिचयं स्वागतं च श्रीमान् राकेशः सेमवालः अकरोत्। प्रान्तशिक्षणप्रमुखः डॉ. राघवः झा संस्कृतभार -त्याः विविधकार्याणां विषये सर्वान् परिचितान् अकरोत्। उद्घाटनसत्रे मुख्यातिथिः सेवानिवृत्तप्रधानाचार्यः डॉ. सत्यप्रकाशः मिश्रः शिबरे आगतान् छात्रान् संस्कृतभाषायाः महत्वविषये