OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।

 इस्रयेलेन सह युद्धे १०६० जनाः हताः इति इरानः। 

दुबाय्> इस्रयेलेन सह प्रवृत्ते युद्धे १०६० इरानीयाः हता इति इरानसर्वकारेण निगदितम्। सर्वकारस्य वयोजनकल्याणविभागस्याधिकारी सयीद् ओहादी इत्यनेन इरानस्य राष्ट्रियदूरदर्शनप्रणालिकायै दत्ता अभिमुखे एवमुक्तम्। मृत्युसंख्या ११०० यावत् प्राप्स्येत इति च तेनोक्तम्। 

  जूण् १३ दिनाङ्के आरभ्य १२ दिनानि यावत् दीर्घिते युद्धे इराने जातस्य विनाशः कियदिति सर्वकारेण इतःपर्यन्तं न प्रकाशितमासीत्। सेनाविनाशः कियदिति एतावदपि  न स्पष्टीकृतम्।

Tuesday, July 8, 2025

 अन्ताराष्ट्रिय बहिराकाश-निलयात् नूतनानि चित्राणि प्रकाशितवन्तः। 

  आक्सियम्-चत्वारि (४) अभियानेन गताः शुभांशुशुक्ल प्रभृतयाः अन्तरिक्षयात्रिकाः अन्ताराष्ट्रिय बहिराकाशनिलये (ISS) स्थित्वा नूतनचित्राणि चित्राणि प्रकाशितवन्तः। पृथिव्याः बहिः दृश्येषु विभिन्नकालेषु गृहीतानि रूपाणि ते छायाग्राहकैः ग्रहीतवन्तः। एषः दलः अन्तरिक्षनिलयम् प्राप्य दश दिनानि अतीतानि। तत्रैव विभिन्नपरिक्षणानि, अवलोकनानि च सततं क्रियन्ते।

 हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ८२ मरणानि। 

षिंला> हिमाचलप्रदेशे अतिवृष्टिरनुवर्तते। राज्ये बहुत्र मेघविस्फोटनानि आकस्मिकप्रलयाश्च दुरापन्नानि। जूणमासस्य विंशदिनाङ्कात् जूलाय् षष्ठदिनपर्यन्तं ८२ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्। 

  १९ मेघविस्फोटनानि, २३ आकस्मिकप्रलयाश्च जातानीति सूच्यते। अतिवृष्टिदुष्प्रभावेण २७९ मार्गाः विनाशमुपगताः। जनजीवनं क्लेशपूर्णं दुस्सहं च वर्तते। बुधवासरं यावत् अतिजागरूकता निर्दिष्टा।

 केरलस्य 'निधिः' परं झार्खण्डस्य निधिः! 

केरले त्यक्ता झार्खण्डीयदम्पत्योः शिशुः तद्राज्ये एव वर्धिष्यते।

निध्या सह के वि सिनि वर्यायाः नेतृत्वे शिशुक्षेमसमितिसंघः रेल् निस्थाने।

कोच्ची> षण्मासेभ्यः पूर्वं केरले झार्खण्डीययुवत्या जन्मलब्धः शिशुः पितृभ्यः परित्यक्तः सन्, केरलस्य शिशुसंरक्षणसमित्या [CWC - Child Welfare Committee] परिपालितः, इदानीं झार्खण्डस्य शिशुसंरक्षणसमितेः परिपालनाय समर्पितः अस्ति। यदि झार्खण्डीयदम्पती 'निधिः' इति कृतनामधेयं  शिशुं परिपालयितुं सन्नद्धौ भविष्यतः तर्हि निर्णयः झार्खण्डीयशिशुसंरक्षणसमित्याः अधिकाराधीनः भवति। 

  गते जनुवरिमासे  केरले वृत्यर्थमागतवती झार्खण्डीया युवती एरणाकुलं सर्वकारीयातुरालये बालिकाशिशवे जन्म अदात्। शिशोः स्वास्थ्यस्थितौ तीव्रे जाते परिचरणं निजीयातुराये विहिता। किन्तु दम्पती शिशुं परित्यज्य स्वराज्यं गतवन्तौ।  आरक्षकैः दम्पतीः विरुध्य प्रकरणं पञ्जीकृतम्। शिशोः  संरक्षण परिचर्यादिकं  केरलस्य CWC संस्थया स्वीकृतम्। तं बालिकापोतं निधिरिति नाम कृत्वा निधिवत् समवर्धत च।

  एप्रिल् मासे पितरौ झार्खण्डतः केरलं प्रत्यागत्य  तौ निर्धनौ इत्यतः शिशुं परिपालयितुमशक्यौ , अत एव त्यक्तवन्तौ इति उक्तवन्तौ। अनन्तरं आरक्षकैः CWC अधिकृतैः च विधत्ते अन्वेषणे प्रमाणसमाहरणे च तयोरुक्तिः सत्यमित्यवबुध्य तौ विमोचितौ। 

  ततः गतमासे शिशोः उपसंक्रमणमधिकृत्य झार्खण्डीय CWC संस्थां प्रति चर्चा संवृत्ता। शिशोः अभिवर्धनं तस्याः राज्ये, स्वकीयभाषायां संस्कृत्यां स्वजनानां परिरक्षणे एव भवितव्यमिति निर्णयस्याधारे झार्खण्डीय CWC संस्थायै उपसंक्रमितुं निर्णयोSभवत्। 

  तदनुसृत्य सोमवासरे प्रभाते एरणाकुलं रेल् निस्थानात् जनपदीय शिशुक्षेमसमित्यधिकारिणी के एस् सिनि इत्यस्याः नेतृत्वे कश्चन संघः बालनिध्या सह प्रस्थितः। षण्मासं यावत् परिचर्यायाः अन्ते पूर्णारोग्यवती भवति निधिः। मृत्युवक्त्रात् केरलेन परिरक्षिता निधिः झार्खण्डस्य निधिरूपेण अभिवर्धतामिति प्रत्याशा।

 महाराष्ट्रे गुज्राते च कठिना वृष्टिः। 

मुम्बई> महाराष्ट्र गुजरातयोः समुद्रोपान्तप्रदेशेषु कठिना वृृष्टिः आरब्धा। तटप्रदेशेषु जागरूकता विज्ञापिता। पूर्णा कावेरी नद्यौ जलाप्लाविते प्रवहत्यौ। जनैः  जाग्रत्ता पालनीया इति तत्तत्प्रशसनेन विज्ञापितम्।

  दिल्ल्यामपि दिनद्वयं यावत् महती वृष्टिरस्ति। व्योम-स्थलयातायातसुविधा क्लेशतरा वर्तते।

Monday, July 7, 2025

 माषिचीकाष्ठैः प्रतिकृतिं जीवयन् उत्तराखण्डस्य लालः पवनसुन्दरियाल: 

2021 वर्षत: 2022  वर्षपर्यन्तं निरन्तरं द्विःवारं "इण्डिया बुक ओफ् रेकोर्ड् इत्यतु नामाङ्कनं प्राप्तवान्

 वार्ताहर:- कुलदीपमैन्दोला। उत्तराखण्डं।

   उत्तराखण्डस्य पुण्यभूमौ समये समये अद्भुतानि व्यक्तित्वानि जातानि यैः मानवजातिः विस्मयचकितं भूत्वा करद्वयं मुखे स्थापयति। तादृश: एव कश्चन् प्रतिभावान् पुरुषः अद्य अस्माकं समक्षं परिचयाय उपस्थाप्यते। यः माषिचीकाष्ठैः  निर्मिताभिः प्रतिकृतिभिः सर्वेषां मनांसि मोहयति। एषः प्रतिभावान् पुरुषः पंकजसुन्दरियाल: इति प्रसिद्धः अस्ति।

पंकजसुन्दरियालमहोदयस्य जन्म

 द्वितीये निकषप्रतिद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

+ 'एड्ज् बास्टणे' भारतस्य प्रथमविजयः।

+शुभ मान गिलस्य नायकत्वे प्रथमविजयः। 

+ आकाशदीपस्य १० द्वारकाणामुपलब्धिः।

बर्मिङ्हामः> 'एड्ज् बास्टण्' क्रीडाङ्कणस्य आकाशम् अस्मिन् वारे भारताय प्रकाशितम्। अत्र आहत्य क्रीडितेषु अष्टसु क्रीडासु एकस्यामपि  विजयमधुरं भारतेन न सम्प्राप्तमासीत्। सप्तसु पराजयः, एकस्मिन् समस्थितिः इत्यपमानात्  स्वगणस्य साहाय्येन    शुभ मान गिलः भारतम् अत्युज्वलविजयेन  अभिमानतीरमानयत्। 

  भारत-इङ्लण्टयोः द्वितीयनिकषस्पर्धायां भारतस्य विजयः ३३६ धावनाङ्कानामसीत्। द्वितीयचरणे ९९ धावनाङ्कान् प्रदाय ६ कन्दुकताडकान् क्रीडाक्षेत्रात् बहिः नीयमानः गेन्दकः [Bowler]  आकाश दीपः एव भारतस्य विजयदीपं प्रज्वालितवान्। प्रथमचरणे सः चत्वारि द्वारकाणि सम्पादितवान्। प्रथमचरणे शतकद्वयं द्वितीयचरणे शतकं च सम्प्राप्तवान् दलनायकः शुभमानगिलः एव श्रेष्ठक्रीडकः। 

  ६०८ धावनाङ्काः विजयलक्ष्यं प्रापणीयः इङ्लण्टदलः २७१ धावनाङ्कान् सम्पाद्य बहिर्गताः। पञ्चसंख्याकनिकषपरम्परायाम् इदानीं भारतं १ - १ इति समस्थितिं पर्यपालयत्। तृतीयनिकषः जूलाय् १० दिनाङ्कतः लोर्ड् क्रीडाङ्कणे सम्पत्स्यते।

 अमेरिकायाम् इलोण मस्कस्य नेतृत्वे तृतीयं राजनैतिकदलम् -

'दि अमेरिका पार्टी'। 

मस्कः ट्रम्पश्च। 

न्यूयोर्क्> अमेरिकायाः जनाधिपत्यव्यवस्थायां द्विपक्षसम्प्रदायस्य  दमनमुद्घोषयन् नूतनं राजनैतिकदलं रूपीकुर्वन् टेस्ला-स्पेय्स् एक्स् इत्यस्य अधिपः, यू एस् राष्ट्रस्य कार्यक्षमताविभागस्य (डोज्)  भूतपूर्वाधिकारी, उद्योगप्रमुखश्च इलोण मस्कः।  'दि अमेरिका पार्टी' इति नाम्ना नूतनदलं रूपीकृतमिति शनिवासरे 'एक्स्' समाजमाध्यमेन सः उद्घोषितवान्। 

  अमेरिकीयजनसमुदायाय तेषां स्वातन्त्र्यं प्रतिदातुमेव नूतनदलस्य रूपीकरणमिति सः एक्स्' मध्ये लिखितवान्। यदि यू एन् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य 'Big beautiful' नामकम् आयव्ययपत्रविधेयकं सभायाम् अनुमोदयिष्येत् तर्हि आत्मना स्वकीयं नूतनं राजनैतिकदलं रूपीकरिष्यते इति मस्केन विज्ञप्तमासीत्। पूर्वम् आत्ममित्रे मस्कः ट्रम्पश्च परं बद्धवैरिणौ जातौ।

 उपराष्ट्रपतिः केरलं सम्प्राप्तवान्। 

पत्न्या साकं कोच्चीं प्राप्तवन्तं जगदीप धन्करं राज्यपालः आर् वि आर्लेकरः स्वीकरोति। समीपे राज्यमन्त्री पि राजीवः 

कोच्ची> भारतस्य उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयसन्दर्शनार्थं पत्नीसमेतः केरलं सम्प्राप्तवान्। रविवासरे पत्न्या डो सुदेष् धन्करेण सह  कोच्चि अन्ताराष्ट्रविमाननिलयं प्राप्तवते  उपराष्ट्रपतये राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य नेतृत्वे हृद्यं स्वीकरणं विधत्तम्।राज्यमन्त्री पि राजीवः, राज्यकार्यदर्शिप्रमुखः डो ए जयतिलकः, आरक्षकदलस्य राज्याधिकारी रवाडा चन्द्रशेखरः इत्यादयश्च स्वीकरणवेलायां सन्निहिताः आसन्। 

  ह्यः कोच्ची बोल्गाट्टीस्थे आडम्बरभवने उषितवान् उपराष्ट्रपतिः अद्य प्रभाते गुरुवायूर् श्रीकृष्णमन्दिरे पत्नीसमेतः सन् दर्शनं विधास्यति। तदनन्दरं कोच्चीं प्रतिनिवृत्तमाणः सः १०. ५५ वादने 'नुवाल्स्' इति National University of Advanced Legal Studies संस्थायां छात्रैः शिक्षकैश्च संवादं करिष्यति। मध्याह्नानन्तरं दिल्लीं प्रतिगमिष्यति च।

 उत्तरभारते अतिवृष्टिः।

हिमाचले ७५ मरणानि; ओडीशायां १२ ग्रामेषु जलोपप्लवः।

उत्तरभारते विभिन्नस्थानेषु अतिवृष्टिदुष्प्रभावस्य दृश्यम्। 

दिल्ली> उत्तरभारते व्यापकतया अतिवृष्टिः। बहुत्र महान् विनाशः जातः। नवमदिनाङ्कपर्यन्तम् अतिवृष्टिः भविष्यति। 

  हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ७५ जनाः मृत्युमुपगताः। विंशत्यधिकाः जनाः अप्रत्यक्षाः अभवन्। हिमाचले पञ्चाबे च रक्तजाग्रत्ता उद्घोषिता। 

 ओडीशायां द्वित्राणि दिनानि यावत् अनुवर्तमानया तीव्रवृष्ट्या १० ग्रामाः जलनिमग्नाः जाताः। मध्यप्रदेश्, दिल्ली, हरियानम् इत्यादिषु राज्येषु महती वृष्टिरारब्धा। २५० अधिके मार्गाः जलनिमग्नाः अभवन्। यात्रासुविधा बहुत्र निश्चला जाता।

Sunday, July 6, 2025

 नरेन्द्रमोदी अर्जन्टीनां प्राप्तवान्। 


ब्यूणस् ऐरिस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे सायं [प्रादेशिकसमयः] अर्जन्टीनां सम्प्राप्तवान्। पञ्चराष्ट्रपर्यटनस्य अंशतया राजनगरीं ब्यूणस् ऐरिस् प्राप्तवन्तं मोदिनं कलाकार्यक्रमैः तत्रत्यः भारतीयसमाजः स्वीकृतवान्। अर्जन्टीनायाः राष्ट्रपतिः हावियर् मिले इत्यनेन सह तस्य मेलनं सम्पत्स्यते।

 गासा शान्तिमधिगच्छति!

गासा सिटी> गासायां ६० दिनात्मकस्य भुषुण्डिप्रयोगविराम इति यू एस् राष्ट्रस्य निर्देशं प्रति हमासस्य अनुकूलं प्रतिस्पन्दनम्। क्रियात्मकं प्रतिवचनं मध्यस्थेभ्यः समर्पितमिति हमासेन निगदितम्। युद्धविरामं प्रवृत्तिपथमानेतुं प्रक्रमानधिकृत्य चर्चाः अचिरेण भविष्यन्तीति च प्रोक्तम्। 

  युद्धस्थगनसन्धेः प्राग्रूपः इस्रयेलेन अङ्गीकृतः आसीत्। आगामि सप्ताहे युद्धविरामः भविष्यतीति अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पश्च प्रोक्तवान्।

 केरलमुख्यमन्त्री चिकित्सार्थम् अमेरिकामगच्छत्।


अनन्तपुरी> केरलस्य मुख्यमन्त्री पिणरायि विजयः चिकित्सार्थम् अमेरिकादेशं गतवान्। गतदिने दुबाय् देशं प्राप्य ततः एव अमेरिकां प्रस्थितवान्। दशदिनेभ्यः परमेव तस्य प्रतिनिवर्तनम्।

 दलैलामावर्यस्य नवतिः समाचरिता।


धर्मशाला> टिबट् राष्ट्रस्य आत्मीयाचार्यस्य दलैलामावर्यस्य नवतितमं जन्मदिनं रविवासरे हिमाचलप्रदेशस्थे धर्मशाला इत्यत्र समाचरितम्।

   शनिवासरे दलैलामावर्यस्य दीर्घायुषे  समायोजिते प्रार्थनासमारोहे सान्निध्यं कृत्वा परं त्रिंशत्-चत्वारिंशत् वर्षाणि यावत् आत्मनः आयुः प्रतीक्षते इति तेन प्रोक्तम्। अतः गुरुपरम्परायाः अनन्तरगामिनम् अधिकृत्य चर्चायाः विरामः अभवत्।

 तरुणानाम् एकदिनक्रिकट् परम्परा भारतेन स्वायत्तीकृता। 

वैभव सूर्यवंशी। 

लण्टनं> इङ्गलाण्टं विरुध्य ऊनैकोनविंशतिवयस्कानां [Under 19] एकदिनक्रिकट् परम्परायाः पञ्चसु प्रतिद्वन्द्वेषु संख्यात्रयं विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने सम्पन्नः चतुर्थः प्रतिद्वन्द्वः भारतेन विजितः।  इङ्गलाण्टं पञ्चपञ्चाशत् धावनाङ्कैः भारतं पराजयत। 

  वैभव सूर्यवंशेः उज्वलशतकं [७८ कन्दुकैः १४३ धावनाङ्काः], विहान मल्होत्रस्य शतकं च [१२१ कन्दुकैः १२९ धावनाङ्काः] भारतविजयस्य आधारशिलाद्वयमभवत्। प्रथमं कन्दुकताडनं कृतवता भारतेन नव ताडकानां विनष्टे  ३६३ धावनाङ्काः प्राप्ताः। इङ्गलाण्टे तु ३०८ धावनाङ्केषु सम्पादितेषु सर्वे बहिर्नीताः।

Saturday, July 5, 2025

अमेरिकादेशस्य टेक्सास्-राज्ये आकस्मिक-जलप्रलयः

 चतुर्विंशतिः जनाः मृताः, त्रयोविंशतिः बालिकाः अप्रत्यक्षाः।

अमेरिकादेशस्य टेक्सास्-राज्ये दुरापन्नेन तीव्रेण वर्षेण सह आकस्मिकजलप्रलयः अभवत्। चतुर्विंशतिः जनाः मृत्युमुपगताः। त्रयोविंशतिः बालिकाः अप्रत्यक्षाः च।

   ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" नाम्नि आयोज्यमानायाः एकस्याः बालिकामण्डल्याः त्रयोविंशतिः सदस्याः अप्रत्यक्षाः अभवन्। एतासां घटनानां कारणात् टेक्सास्-राज्ये आयोज्यमानाः स्वतंत्रतादिनस्य महोत्सवाः स्थगिताः। केर्-कौण्टी इत्यस्मिन्नेव प्रान्ते शुक्रवासरे सायं अति वृष्टिः आसीत्। तेनैव कारणेन ग्वाडलूप्-नद्याः तीरे आकस्मिकः जलप्रलयः अभवत्। विद्युत्स्फु लिङ्गेन सह जलप्रवाहः जातः, तथा च तस्याः नद्याः कूलप्रदेशे एव आयोजितः आसीत् ओल्- गेल्स् क्रिस्ट्यन् समर्- क्याम्प्" इति ज्ञायते।

   टेक्सास्-राज्यस्य राज्यपालः ग्रेग् अबोट् इत्यनेन प्रतिपादितं यत् रक्षा-कार्यम् अत्यन्तं तीव्रगत्या प्रचलति। दुर्घटनायाः सन्दर्भे सर्वकारेण धनसाहायः घोषितः। राष्ट्रपति डोनाल्ड् ट्रम्पः घटनेऽयं भयकरी इति उक्तवान् सः टेक्सास्-राज्यस्य राज्यपालेन सह सततम् सम्पर्कं कुर्वन् अस्ति इति च उक्तवान्।