शबरिगिरितीर्थाटनं समारब्धम्।
पत्तनंतिट्टा> शरणमन्त्रजपैः वृश्चिकमासस्य प्रथमदिने केरलस्थे शबरिगिरि श्रीधर्मशास्तृमन्दिरे अस्य वर्षस्य 'मण्डलकाल-मकरदीप'तीर्थाटनाय प्रारम्भमजायत। रविवासरस्य सायंसध्यायां तन्त्रिवर्यस्य कण्ठर् महेष् मोहनरस्य कार्मिकत्वे मुख्यार्चकः अरुणकुमार नम्पूतिरिः गर्भगृहद्वारम् उदघाटयत्। सोमवासरे प्रत्युषसः आरभ्य सहस्रशः भक्ताः शरणमन्त्रारवैः गिर्यारोहणं कृतवन्तः। परं ४१ दिनानि दक्षिणभारतस्य वीथयः शरणमन्त्रैः मुखरिताः भवेयुः।




.webp)




